ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
लिङ्गाच्च ॥ २ ॥
अत्राह — भवतु नाम साध्यफलेषु प्रत्ययेष्वावृत्तिः, तेष्वावृत्तिसाध्यस्यातिशयस्य सम्भवात् । यस्तु परब्रह्मविषयः प्रत्ययो नित्यशुद्धबुद्धमुक्तस्वभावमेव आत्मभूतं परं ब्रह्म समर्पयति, तत्र किमर्था आवृत्तिरिति । सकृच्छ्रुतौ ब्रह्मात्मत्वप्रतीत्यनुपपत्तेरावृत्त्यभ्युपगम इति चेत् , न, आवृत्तावपि तदनुपपत्तेः । यदि हि ‘तत्त्वमसि’ इत्येवंजातीयकं वाक्यं सकृच्छ्रूयमाणं ब्रह्मात्मत्वप्रतीतिं नोत्पादयेत् ततस्तदेव आवर्त्यमानमुत्पादयिष्यतीति का प्रत्याशा स्यात् । अथोच्येत — न केवलं वाक्यं कञ्चिदर्थं साक्षात्कर्तुं शक्नोति; अतो युक्त्यपेक्षं वाक्यमनुभावयिष्यति ब्रह्मात्मत्वमिति — तथाप्यावृत्त्यानर्थक्यमेव । सापि हि युक्तिः सकृत्प्रवृत्तैव स्वमर्थमनुभावयिष्यति । अथापि स्यात् — युक्त्या वाक्येन च सामान्यविषयमेव विज्ञानं क्रियते, न विशेषविषयम्; यथा ‘अस्ति मे हृदये शूलम्’ इत्यतो वाक्यात् गात्रकम्पादिलिङ्गाच्च शूलसद्भावसामान्यमेव परः प्रतिपद्यते, न विशेषमनुभवति — यथा स एव शूली । विशेषानुभवश्च अविद्याया निवर्तकः; तदर्था आवृत्तिरिति चेत् — न । असकृदपि तावन्मात्रे क्रियमाणे विशेषविज्ञानोत्पत्त्यसम्भवात् । न हि सकृत्प्रयुक्ताभ्यां शास्त्रयुक्तिभ्यामनवगतो विशेषः शतकृत्वोऽपि प्रयुज्यमानाभ्यामवगन्तुं शक्यते । तस्मात् यदि शास्त्रयुक्तिभ्यां विशेषः प्रतिपाद्येत, यदि वा सामान्यमेव उभयथापि सकृत्प्रवृत्ते एव ते स्वकार्यं कुरुत इति आवृत्त्यनुपयोगः । न च सकृत्प्रयुक्ते शास्त्रयुक्ती कस्यचिदप्यनुभवं नोत्पादयत इति शक्यते नियन्तुम् , विचित्रप्रज्ञत्वात्प्रतिपत्तॄणाम् । अपि च अनेकांशोपेते लौकिके पदार्थे सामान्यविशेषवति एकेनावधानेन एकमंशमवधारयति, अपरेण अपरम् — इति स्यादप्यभ्यासोपयोगः, यथा दीर्घप्रपाठकग्रहणादिषु । न तु निर्विशेषे ब्रह्मणि सामान्यविशेषरहिते चैतन्यमात्रात्मके प्रमोत्पत्तावभ्यासापेक्षा युक्तेति ॥

अधिकरणार्थमुक्त्वा तस्य निर्गुणब्रह्मविषयत्वमाक्षिपति -

अत्रेति ।

अहङ्ग्रहोपास्तयः श्रवणादयश्च सविशेषनिर्विशेषब्रह्मसाक्षात्कारफलास्तावदिहोदाहरणं तत्राहङ्ग्रहोपास्तिष्वावृत्तिमङ्गीकरोति -

भवत्विति ।

श्रवणादिषु तां निराचष्टे -

यस्त्विति ।

निर्गुणब्रह्मण्यापरोक्ष्यातिशयः साध्यो नास्ति तस्य नित्यापरोक्षत्वात्तेन तत्र श्रवणाद्यावृत्तिरनर्थिकेत्यर्थः ।

ब्रह्मणो नित्यापरोक्षत्वेऽपि तावताऽविद्याध्वस्तेरभावात्तदर्थमागन्तुकः साक्षात्कारः श्रवणाद्यावृत्तिसाध्योऽस्तीति शङ्कते -

सकृदिति ।

पूर्ववाद्याह -

न । आवृत्ताविति ।

अनुपपत्तिमेव प्रकटयति -

यदीति ।

ज्योतिष्टोमादिवाक्यवदावृत्तिमदपि तत्त्वमादिवाक्यं न स्वार्थे साक्षात्कारक्षममित्यर्थः ।

युक्तिप्रसङ्ख्यानसहितं वाक्यं स्वार्थे साक्षात्कारं जनयेदित्याह -

अथेति ।

युक्तिसाहित्यमुपेत्यावृत्तिं प्रत्याह -

तथापीति ।

आवृत्तेरर्थवत्त्वं समर्थयमानः स्वयूथ्यश्चोदयति -

अथापीति ।

तदेव दृष्टान्तेन स्पष्टयति -

यथेति ।

शूलविशेषस्यानुभवायोग्यत्वादेवमित्याशङ्क्याह -

यथेति ।

अस्तु प्रस्तुतेऽपि सामान्यधीरेव किं विशेषधियेत्याशङ्क्याह -

विशेषेति ।

स तर्हि भावनाजन्यो वा शास्त्रयुक्तिजन्यो वा । नाद्यस्तस्यामानजन्यत्वेनाविद्याध्वंसित्वायोगादिति मत्वा द्वितीयं प्रत्याह -

नेति ।

प्रत्यक्षातिरिक्तस्य न साक्षात्कारहेतुतेत्यर्थः ।

किञ्च युक्तिवाक्ये साक्षात्कारक्षमे तदक्षमे वा समर्थे चेदावृत्त्यानर्थक्यम् । द्वीतीयं निराह -

नहीति ।

सामर्थ्यासामर्थ्ययोरावृत्त्यानर्थक्यमुपसंहरति -

तस्मादिति ।

शास्त्रयुक्त्योः साक्षात्कारहेतुत्वोपगमेऽपि व्यर्थावृत्तिरित्याह -

नचेति ।

मेयस्वभावानुसारेणावृत्त्यानर्थक्यमुक्त्वा मेयस्वभावालोचनयापि तदानर्थक्यमाह -

अपिचेति ।