ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥
यः शास्त्रोक्तविशेषणः परमात्मा, स किम् अहमिति ग्रहीतव्यः, किं वा मदन्य इति — एतद्विचारयति । कथं पुनरात्मशब्दे प्रत्यगात्मविषये श्रूयमाणे संशय इति, उच्यते — अयमात्मशब्दो मुख्यः शक्यतेऽभ्युपगन्तुम् , सति जीवेश्वरयोरभेदसम्भवे । इतरथा तु गौणोऽयमभ्युपगन्तव्यः — इति मन्यते । किं तावत्प्राप्तम् ? न अहमिति ग्राह्यः । न हि अपहतपाप्मत्वादिगुणो विपरीतगुणत्वेन शक्यते ग्रहीतुम् , विपरीतगुणो वा अपहतपाप्मत्वादिगुणत्वेन । अपहतपाप्मत्वादिगुणश्च परमेश्वरः, तद्विपरीतगुणस्तु शारीरः । ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावप्रसङ्गः । ततः शास्त्रानर्थक्यम् । संसारिणोऽपि ईश्वरात्मत्वे अधिकार्यभावाच्छास्त्रानर्थक्यमेव, प्रत्यक्षादिविरोधश्च । अन्यत्वेऽपि तादात्म्यदर्शनं शास्त्रात् कर्तव्यम् — प्रतिमादिष्विव विष्ण्वादिदर्शनम् इति चेत् — काममेवं भवतु । न तु संसारिणो मुख्य आत्मा ईश्वर इत्येतत् नः प्रापयितव्यम् ॥

श्रवणमनननिदिध्यासनादिसाधनान्यावृत्त्याऽनुष्ठेयानीत्युक्तम् । तत्र निदिध्यासनकाले कथं प्रत्ययावृत्तिः, तत्राह -

आत्मेतित्विति ।

यद्यपि शब्दादेव प्रमित इत्यादिषु जीवब्रह्मैक्यं श्रुतिभिरुक्तं तथापि तासामेव विरुद्धार्थत्वादुपचरितविषयत्वमाशङ्क्यात्र समाधीयते । विरोधसमाधेरविरोधाध्यायसङ्गतत्वेऽपि महावाक्यार्थविरोधसमाधेः समाधावन्तरङ्गत्वादिह सङ्गतिरिति मत्वा विषयोक्तिपूर्वकमुभयथाप्रसिद्धेः संशयमाह -

य इति ।

संशयाभावादधिकरणमाक्षिपति -

कथमिति ।

आत्मशब्दस्य मुख्यार्थत्वे सत्यभेदसिद्धिस्तत्सिद्धौ च तस्य मुख्यार्थत्वसिद्धिरित्यन्योन्याश्रयान्मानान्तरविरोधाच्च तन्मुख्यार्थत्वासिद्धेस्तदालम्बनेन संशयानाक्षेपादधिकरणमारभ्यमित्याह -

उच्यत इति ।

अत्र च विरोधपरिहारफले समाध्युपयोगितया प्रासङ्गिके । ध्यानावस्थायां प्रत्यक्त्वेन ब्रह्मप्रतिपत्त्यनुष्ठानोक्त्या पादादिसङ्गतिः । पूर्वपक्षे श्रुतीनामैक्यगोचराणामुपचरितार्थत्वम् ।

सिद्धान्ते तासां मुख्यार्थत्वं फलतीत्याशयवान्विमृश्य पूर्वपक्षं गृह्णाति -

किमिति ।

द्वा सुपर्णेत्यादिभेदश्रुतेरुपास्योपासकादिभावभेदलिङ्गश्च भेद इत्यर्थः ।

युक्तितो भेदमाह -

नहीति ।

तयोर्विरुद्धगुणत्वमसिद्धमित्याशङ्क्याह -

अपहतेति ।

किं चाभेदेऽपि किमीश्वरस्य जीवात्मता किं वा जीवस्येश्वरात्मतेति विकल्प्याद्यं दूषयति -

ईश्वरस्येति ।

द्वितीयं प्रत्याह -

संसारिणोऽपीति ।

अहं सुखीत्याद्यनुभवेन विरुद्धस्वभावत्वाद्भेदो दहनतुहिनवदित्यनुमानेन च विरोधान्न तयोरैक्यमित्याह -

प्रत्यक्षादीति ।

एकत्वोपदेशानां तर्हि का गतिरित्याशङ्क्य व्याजेन तद्गतिमाह -

अन्यत्वेऽपीत्यादिना ।

तादात्म्यदर्शनाङ्गीकारे नास्ति विप्रतिपत्तिरित्याशङ्क्याह -

न त्विति ।