ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
न प्रतीके न हि सः ॥ ४ ॥
मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेति’ (छा. उ. ३ । १८ । १) तथा आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) यो नाम ब्रह्मेत्युपास्ते’ (छा. उ. ७ । १ । ५) इत्येवमादिषु प्रतीकोपासनेषु संशयःकिं तेष्वपि आत्मग्रहः कर्तव्यः, वेतिकिं तावत्प्राप्तम् ? तेष्वपि आत्मग्रह एव युक्तः कर्तुम्कस्मात् ? ब्रह्मणः श्रुतिषु आत्मत्वेन प्रसिद्धत्वात् , प्रतीकानामपि ब्रह्मविकारत्वाद्ब्रह्मत्वे सति आत्मत्वोपपत्तेरित्येवं प्राप्ते ब्रूमः प्रतीकेष्वात्ममतिं बध्नीयात् हि उपासकः प्रतीकानि व्यस्तानि आत्मत्वेन आकलयेत्यत्पुनः ब्रह्मविकारत्वात्प्रतीकानां ब्रह्मत्वं ततश्च आत्मत्वमिति, तदसत् , प्रतीकाभावप्रसङ्गात्विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेव आश्रितं भवतिस्वरूपोपमर्दे नामादीनां कुतः प्रतीकत्वम् आत्मग्रहो वा ? ब्रह्मण आत्मत्वात् ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्प्या, कर्तृत्वाद्यनिराकरणात्कर्तृत्वादिसर्वसंसारधर्मनिराकरणेन हि ब्रह्मण आत्मत्वोपदेशःतदनिराकरणेन उपासनविधानम्अतश्च उपासकस्य प्रतीकैः समत्वात् आत्मग्रहो नोपपद्यते हि रुचकस्वस्तिकयोः इतरेतरात्मत्वमस्तिसुवर्णात्मनेव तु ब्रह्मात्मना एकत्वे प्रतीकाभावप्रसङ्गमवोचामअतो प्रतीकेष्वात्मदृष्टिः क्रियते ॥ ४ ॥

आत्मत्वमतिरीश्वरे कार्येत्युक्तम् । इदानीं प्रतीकविशेषणस्यापीश्वरस्यात्मत्वात्तद्द्वारा प्रतीकेष्वात्मत्वधीरिति प्राप्ते प्रत्याह -

न प्रतीक इति ।

प्रतीकोपासनान्युदाहृत्योपास्तिषूभयथादृष्टेः संशयमाह -

मन इत्यादिना ।

जीवब्रह्माभेदं पूर्वोक्तमुपजीव्य ब्रह्मदृष्टिभाक्षु प्रतीकेषु ब्रह्माभिन्नजीवदृष्टिरहमिति कार्येति प्रश्नपूर्वकं पूर्वपक्षमाह -

किं तावदिति ।

अत्र प्रासङ्गिकाहंमतिनिरासेन प्रतीकोपास्तिषु प्रयोगभेदोक्त्या पादादिसङ्गतिः ।

पूर्वपक्षे प्रतीकोपास्तीनामहङ्ग्रहोपास्तिभिरविशेषः, सिद्धान्ते विशेषः सिध्यतीत्यङ्गीकृत्य पूर्वपक्षे हेतुं पृच्छति -

कस्मादिति ।

प्रतीकेष्वात्मत्वग्रहे तेषामात्मत्वोपपत्तिहेतुमाह -

ब्रह्मण इति ।

तस्यात्मत्वेऽपि तेषां कथमात्मत्वं, तत्राह -

प्रतीकानामिति ।

ब्रह्मधीयुक्तानि प्रतीकान्यहमिति ग्राह्याणि ब्रह्माभिन्नत्वात्तद्वदित्यर्थः ।

द्विविधोपास्तिष्वविशेषे प्राप्ते सिद्धान्तमाह -

एवमिति ।

न प्रतीकेष्वात्ममतिं कुर्यादैक्यचोदनाभावे सति स्वतो भिन्नत्वादुद्गीथादिवदित्याह -

नेत्यादिना ।

यत्तु ब्रह्मरूपत्वादहमिति ग्राह्यणीति तत्र किमात्मत्वानुभवादात्मत्वेन ग्राह्माणि किं वा मानान्तरसिद्धत्वात् । नाद्य इत्याह -

नहीति ।

द्वितीयमनूद्य दूषयति -

यदिति ।

प्रसङ्गभेव प्रकटयति -

विकारेति ।

तथापि को दोषः, तत्राह -

स्वरूपेति ।

वस्तुवृत्तेन विकाररूपेण नामादीनां ब्रह्मत्वायोगाज्जीवत्वलयेन जीवस्य ब्रह्मत्वोक्तिवत्प्रतीकत्वलयेन तेषामपि ब्रह्मत्वोक्तावालम्बनाभावादुपास्तिविधिर्न स्यादित्यर्थः ।

यत्तु ब्रह्मत्वे सत्यात्मत्वमिति, तत्राह -

नचेति ।

प्रतीकोपदेशेषु कथं कर्तृत्वाद्यनिराकरणं तदाह -

कर्तृत्वादीति ।

तन्निराकरणे तद्विधिरेव न स्यादिति भावः । प्रतीकानां जीवस्व च परिच्छिन्नतया साम्यं गृहीत्वा फलितमाह -

अतश्चेति ।

सत्यपि तुल्यत्वे किमिति जीवस्य तेषु विधिवशादहङ्ग्रहो न स्यात् , तत्राह -

नहीति ।

स्वरूपेणैक्याभावेऽपि रुचकस्वस्तिकयोः सुवर्णात्मनैक्यवदिहापि ब्रह्मात्मनैक्यादहङ्ग्रहः स्यादित्याशङ्क्याह -

सुवर्णेति ।

विकाररूपतिरस्कारेणैक्ये न प्रतीकतेत्युक्तमित्यर्थः ।

रुचकस्वस्तिकयोरपि मिथोव्यावृत्तयोर्नानुवृत्तसुवर्णाद्यात्मत्वकल्पनामृते सिध्यतीति सिद्धवत्कृत्योपसंहरति -

अत इति ॥ ४ ॥