ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥
तेष्वेव उदाहरणेष्वन्यः संशयःकिमादित्यादिदृष्टयो ब्रह्मण्यध्यसितव्याः, किं वा ब्रह्मदृष्टिरादित्यादिष्वितिकुतः संशयः ? सामानाधिकरण्ये कारणानवधारणात्अत्र हि ब्रह्मशब्दस्य आदित्यादिशब्दैः सामानाधिकरण्यमुपलभ्यते, ‘आदित्यो ब्रह्म’ ‘प्राणो ब्रह्म’ ‘विद्युद्ब्रह्मइत्यादिसमानविभक्तिनिर्देशात् अत्र आञ्जसं सामानाधिकरण्यमवकल्पते, अर्थान्तरवचनत्वाद्ब्रह्मादित्यादिशब्दानाम् हि भवतिगौरश्व इति सामानाधिकरण्यम्ननु प्रकृतिविकारभावाद्ब्रह्मादित्यादीनां मृच्छरावादिवत्सामानाधिकरण्यं स्यात्नेत्युच्यते; विकारप्रविलयो ह्येवं प्रकृतिसामानाधिकरण्यात्स्यात् , ततश्च प्रतीकाभावप्रसङ्गमवोचामपरमात्मवाक्यं चेदं तदानीं स्यात् , ततश्चोपासनाधिकारो बाध्येत, परिमितविकारोपादानं व्यर्थम्तस्मात्ब्राह्मणोऽग्निर्वैश्वानरःइत्यादिवत् अन्यत्रान्यदृष्ट्यध्यासे सति, क्व किंदृष्टिरध्यस्यतामिति संशयःतत्र अनियमः, नियमकारिणः शास्त्रस्याभावादित्येवं प्राप्तम्अथवा आदित्यादिदृष्टय एव ब्रह्मणि कर्तव्या इत्येवं प्राप्तम्एवं हि आदित्यादिदृष्टिभिः ब्रह्म उपासितं भवतिब्रह्मोपासनं फलवदिति शास्त्रमर्यादातस्मात् ब्रह्मदृष्टिरादित्यादिष्वित्येवं प्राप्ते ब्रूमः

अहङ्ग्रहोपासनेष्विव प्रतीकोपासनेष्वहङ्ग्रहेणानुष्ठानं नेत्युक्तम् । इदानीं प्रतीकोपासनेष्वेव क्व किन्दृष्टिरध्यस्यतामिति सन्दिहानं प्रत्याह -

ब्रह्मदृष्टिरिति ।

एकविषयत्वेनाधिकरणयोः सङ्गति मन्वानो विषयसंशयौ दर्शयति -

तेष्वेवेति ।

प्रश्नपूर्वकं संशयबीजमाह -

कुत इति ।

उक्तमेव व्यक्तीकर्तुं सामानाधिकरण्यधियं तावद्दर्शयति -

अत्रेति ।

तथापि यथाकथञ्चिदस्य सामानाधिकरण्यस्य सम्भवे कुतः संशयसिद्धिरित्याशङ्क्य सोऽयमितिवदेकत्वनिमित्तं वा प्रकृतिविकारत्वनिमित्तं वा समारोपकृतं वा तदिति विकल्प्याद्यं दूषयति -

नचेति ।

भिन्नार्थशब्देषु तदभावमुदाहरति -

नहीति ।

द्वितीयमादत्ते -

नन्विति ।

उपास्तिविरोधान्मैवमित्याह -

नेतीति ।

प्रविलयपरमेव वाक्यं नोपास्तिपरमित्याशङ्क्योपासीतेतिश्रुतिविरोधान्मैवमित्याह -

परमात्मेति ।

प्रपञ्चप्रविलयद्वारा परमात्मपरत्वे वाक्यस्य कतिपयादित्यादिग्रहणमनर्थकम् । नच सर्वोपलक्षणार्थं तद्ग्रहणं मुख्यसम्भवे लक्षणायोगादित्याह -

परिमितेति ।

पक्षद्वयायोगात्परिशिष्टे तृतीये पूर्वोक्तः संशयः स्यादित्युपसंहरति -

तस्मादिति ।

प्रासङ्गिकप्रकृतप्रतीकोपासनेषु स्वतन्त्रपुमर्थहेतुषु ब्रह्मदृष्ट्यानुष्ठानोक्त्या पादादिसङ्गतिः । पूर्वपक्षे लौकिकन्यायविरोधः ।

सिद्धान्ते तदविरोधः सिध्यतीत्यमिप्रेत्य पूर्वपक्षयति -

तत्रेति ।

यथात्यन्तिकभेदो नामादिष्वहङ्ग्रहाभावे हेतुरुक्तस्तथा तेष्वेव ब्रह्मधीनियामकं न किञ्चिद्दृष्टं तस्मादनियम इत्यर्थः ।

उत्कृष्टनिकृष्टयोरुत्कृष्टमेवोपास्यं फलविशेषवत्त्वाद्राजादिवदित्याशङ्क्य साक्षात्पूर्वपक्षमाह -

अथवेति ।

आदित्यादिशब्दानां प्रथमश्रुतानामनुरोधेन चरमश्रुतं ब्रह्मपदं नेतव्यमिति चेन्न । तथा सति फलाभावापातादित्याह -

ब्रह्मेति ।

पक्षद्वयेऽपि फलितमाह -

तस्मादिति ।

आदित्यादिदृष्ट्या ब्रह्मोपास्यमिति प्राप्ते सिद्धान्तयति -

एवमिति ।