अङ्गाश्रितोपासनेष्वासीनकर्मतानियमाभाववदितरोपासनास्वपि तन्नियमाभावमाशङ्क्याह -
आसीन इति ।
विषयं परिशिनष्टि -
कर्मेति ।
आदिपदेन स्थितिशयने गृह्येते । सम्यग्दर्शनशब्देन श्रवणाद्यभ्यासवासितमनःसहकृतवाक्यकृतसाक्षात्कारो निरुच्यते । अङ्गोपासनेभ्यः सम्यग्दर्शनाच्चातिरिक्तान्युपासनानि विषयीकृत्यानेकधानुष्ठानदृष्टेः संशयमाह -
इतरेष्विति ।
शास्त्रीयेषु प्रस्तुतोपासनेष्वनुष्ठानविशेषचिन्तया पादादिसङ्गतिः । पूर्वपक्षे कर्माङ्गानाश्रितोपासनेषु दैहिकनियमासिद्धिः ।
सिद्धान्ते ध्यानस्य मनोव्यापारत्वेऽपि देहानवस्थाने मनोनवस्थानात्तेषु तन्नियमसिद्धिरिति मत्वा पूर्वपक्षयति -
तत्रेति ।
मनोदेहयोर्भिन्नत्वान्मनोव्यापारमुपासनं प्रति देहव्यापारस्यानुपकारित्वादासीनेन तिष्ठता वा यथाकथञ्चिदनुष्ठेयानि प्रकृतान्युपासनानीत्यर्थः ।
अनङ्गाश्रितोपासनानां यथाकथञ्चिदनुष्ठानमिति पक्षमनूद्य सिद्धान्तयति -
एवमिति ।
प्रश्नपूर्वकं नियामकमाह -
कुत इति ।
सम्भवं बक्तुमुपासनशब्दार्थमाह -
उपासनमिति ।
तथापि कथं तदासीनस्यैवेति नियम्यते, तत्राह -
नचेति ।
तर्हि तिष्ठतो भविष्यति विक्षेपाभावात् , तत्राह -
तिष्ठतोऽपीति ।
तर्हि शयानस्य देहधारणव्यापाराभावादुपासनं स्यान्नेत्याह -
शयानस्येति ।
देहेऽनवस्थिते मनोनवस्थितेरध्वक्षत्वादासीनस्यैवोपासनमनुष्ठेयमिति परिशेषसिद्धमर्थमाह -
आसीनस्य त्विति ॥ ७ ॥