ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
ध्यानाच्च ॥ ८ ॥
अपि ध्यायत्यर्थ एषः, यत्समानप्रत्ययप्रवाहकरणम्ध्यायतिश्च प्रशिथिलाङ्गचेष्टेषु प्रतिष्ठितदृष्टिषु एकविषयाक्षिप्तचित्तेषु उपचर्यमाणो दृश्यतेध्यायति बकः, ध्यायति प्रोषितबन्धुरितिआसीनश्च अनायासो भवतितस्मादपि आसीनकर्मोपासनम् ॥ ८ ॥

इतश्चोपासनमासीनकर्मेत्याह -

ध्यानाच्चेति ।

सूत्रं विवृणोति -

अपिचेति ।

उपास्तिध्यायत्योरेकार्थत्वेऽपि प्रकृते किं जातं तदाह -

ध्यायतिश्चेति ।

अथ ध्यायतिर्यस्यां प्रयुज्यते सावस्था तिष्ठतोऽपि सम्भवति नेत्याह -

आसीनश्चेति ।

लौकिकं लिङ्गमुपसंहरति -

तस्मादिति ॥ ८ ॥