ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
यत्रैकाग्रता तत्राविशेषात् ॥ ११ ॥
दिग्देशकालेषु संशयःकिमस्ति कश्चिन्नियमः, नास्ति वेतिप्रायेण वैदिकेष्वारम्भेषु दिगादिनियमदर्शनात् , स्यादिहापि कश्चिन्नियम इति यस्य मतिः, तं प्रत्याहदिग्देशकालेषु अर्थलक्षण एव नियमःयत्रैव अस्य दिशि देशे काले वा मनसः सौकर्येणैकाग्रता भवति, तत्रैवोपासीत, प्राचीदिक्पूर्वाह्णप्राचीनप्रवणादिवत् विशेषाश्रवणात् , एकाग्रताया इष्टायाः सर्वत्राविशेषात्ननु विशेषमपि केचिदामनन्तिसमे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिःमनोनुकूले तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत्’ (श्वे. उ. २ । १०) इति यथेतिउच्यतेसत्यमस्ति एवंजातीयको नियमःसति त्वेतस्मिन् , तद्गतेषु विशेषेष्वनियम इति सुहृद्भूत्वा आचार्य आचष्टे । ‘मनोनुकूलेइति चैषा श्रुतिः यत्रैकाग्रता तत्रैवइत्येतदेव दर्शयति ॥ ११ ॥

अनङ्गाश्रितोपासनेष्वासननियमवद्दिगादिनियमोऽपि स्यादित्याशङ्क्याह -

यत्रेति ।

अनङ्गाश्रितोपासनानि विषयस्तेषु दिगादिनियमोऽस्त्युत नेति विहितेषु द्विधादृष्ट्या संशयमाह -

दिगिति ।

अङ्गोपास्त्यतिरिक्तोपास्तिषु शास्त्रीयास्वेव दिगादिनियमं विनाऽनुष्ठानक्रमचिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे दिगादिनियमादेतेषु चित्तैकाग्र्यमन्तरेणानुष्ठानम् ।

सिद्धान्ते दिगादिष्वास्थाभावेऽपि प्रधानानुगुण्यादनुष्ठानमित्यङ्गीकृत्यानङ्गोपासनानि नियतदिग्देशकालानि चोदनालक्षणत्वाद्वैश्वदेववदित्याशयेन पूर्वपक्षयति -

प्रायेणेति ।

प्रदोषादिकाले प्राच्यादिदिशि तीर्थादिदेशे प्रकृतोपासनानुष्ठानमिति प्राप्ते सिद्धान्तयति -

तमिति ।

चोदनादिवशेनोक्तोपासनेषु न देशादिनियमः किन्तूपास्ये चित्तैकाग्र्यलक्षणार्थाक्षिप्त एव तन्नियम इत्युक्तं विवृणोति -

यत्रेति ।

यत्तु चोदनालक्षणत्वादित्यनुमानं तत्र श्रुतदेशादिमत्त्वमुपाधिरिति वदन्नविशेषादिति व्याचष्टे -

प्राचीनेति ।

प्राचीनप्रवणे प्राग्देशनिम्ने देशे वैश्वदेवेन यागविशेषेण यजेतेत्यादिवदत्र विशेषो न श्रूयते । ऐकाग्र्यं हि ध्यानं प्रत्यन्तरङ्गं तस्मिन्मध्याह्नादावपि सम्भवति प्रदोषाद्यपेक्षायां शेषिबाधादनियम इत्यर्थः ।

ध्यानान्तरङ्गमैकग्र्यमपि नियतदिगाद्यपेक्षमित्याशङ्क्य हेतोरर्थान्तरमाह -

एकाग्रताया इति ।

विशेपेक्षायां शेषिबाधादनियम इत्यर्थः ।

ध्यानान्तरङ्गमैकाग्र्यमपि नियतदिगाद्यपेक्षमित्याशङ्क्य हेतोरर्थान्तरमाह -

एकाग्रताया इति ।

विशेषाश्रवणमसिद्धमिति शङ्कते -

नन्विति ।

शर्कराः सूक्ष्मपाषाणाः । जलाशयवर्जनं शीतनिवृत्त्यर्थम् । चक्षुःपीडनो मशकः । यथा श्रुतिसिद्धो विशेषस्तथान्योऽपि कालादिविशेषो ध्याने स्यादित्यर्थः ।

वाचनिके नियमे सत्येव दिगादिनियमनिरसनमित्याह -

उच्यत इति ।

तद्गतेष्विति ।

तच्छब्देन श्रौतो विशिष्टो देशो गृह्यते तस्मिन्गता विशेषास्तु प्राचीनप्रवणादयस्तन्नियमे कदाचिदेकाग्रतायोगेनोपासनायोगात्प्रधानविरोधात्तदनियमः श्रेयानित्यर्थः ।

नियमादनियमो युक्तः शेष्यानुगुण्यादित्यत्र सूत्रकारसंमतिमाह -

इति सुहृदिति ।

उक्ताऽपि हि श्रुतिरस्माकमनुकूलैवेत्याह -

मन इति ॥ ११ ॥