ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
आ प्रायणात्तत्रापि हि दृष्टम् ॥ १२ ॥
आवृत्तिः सर्वोपासनेष्वादर्तव्येति स्थितमाद्येऽधिकरणेतत्र यानि तावत् सम्यग्दर्शनार्थान्युपासनानि, तानि अवघातादिवत् कार्यपर्यवसानानीति ज्ञातमेव एषामावृत्तिपरिमाणम् हि सम्यग्दर्शने कार्ये निष्पन्ने यत्नान्तरं किञ्चिच्छासितुं शक्यम् , अनियोज्यब्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात्यानि पुनः अभ्युदयफलानि, तेष्वेषा चिन्ताकिं कियन्तंचित्कालं प्रत्ययमावर्त्य उपरमेत् , उत यावज्जीवमावर्तयेदितिकिं तावत्प्राप्तम् ? कियन्तंचित्कालं प्रत्ययमभ्यस्य उत्सृजेत् , आवृत्तिविशिष्टस्योपासनशब्दार्थस्य कृतत्वादित्येवं प्राप्ते, ब्रूमः प्रायणादेव आवर्तयेत्प्रत्ययम् , अन्त्यप्रत्ययवशाददृष्टफलप्राप्तेःकर्माण्यपि हि जन्मान्तरोपभोग्यं फलमारभमाणानि तदनुरूपं भावनाविज्ञानं प्रायणकाले आक्षिपन्ति — ‘सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति’ ‘यच्चित्तस्तेनैष प्राणमायाति’ ‘प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयतिइति चैवमादिश्रुतिभ्यःतृणजलूकानिदर्शनाच्चप्रत्ययास्त्वेते स्वरूपानुवृत्तिं मुक्त्वा किमन्यत् प्रायणकालभावि भावनाविज्ञानमपेक्षेरन्तस्मात् ये प्रतिपत्तव्यफलभावनात्मकाः प्रत्ययाः, तेषु प्रायणात् आवृत्तिःतथा श्रुतिः — ‘ यावत्क्रतुरयमस्माल्लोकात्प्रैतिइति प्रायणकालेऽपि प्रत्ययानुवृत्तिं दर्शयतिस्मृतिरपियं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम्तं तमेवैति कौन्तेय सदा तद्भावभावितः’ (भ. गी. ८ । ६) इति, प्रयाणकाले मनसाचलेन’ (भ. गी. ८ । १०) इति । ‘सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येतइति मरणवेलायामपि कर्तव्यशेषं श्रावयति ॥ १२ ॥

देशाद्यविधानात्तदपेक्षावदहङ्ग्रहोपास्तिष्वादेहपातादावृत्तेरविधानात्तदनपेक्षेत्याशङ्क्याह -

आ प्रायणादिति ।

व्यवहितेन सम्बन्धार्थं वृत्तं कीर्तयति -

आवृत्तिरिति ।

सम्प्रति सम्बन्धं वदन्विषयं विवेचयति -

तत्रेति ।

सम्यग्ज्ञाने जातेऽपि मुक्त्यर्थमावृत्तिरामरणात्कार्येत्याशङ्क्याह -

नहीति ।

नियोज्यस्याधिकारिणोऽभावान्मुक्तेश्च सम्यग्धीनान्तरीयकत्वादावृत्तिरनर्थिकेत्यर्थः ।

उक्तहेत्वभावादनुष्ठानस्योभयथादृष्टेरहङ्ग्रहोपास्तिषु संशयमाह -

यानीति ।

शास्त्रीयाहङ्ग्रहोपासनेषु स्वतन्त्रफलहेतुषु यावज्जीवमनुष्ठानमितिचिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे सर्वोपासनेष्वावृत्तेरविशेषः ।

सिद्धान्ते प्रकृतेषु विशेष इत्युपेत्य विमृश्य पूर्वपक्षयति -

किं तावदिति ।

सर्वोपासनेष्वावृत्तौ विशेषो नेति प्राप्ते प्रकृतोपासनेष्वामरणादावृत्तिः कार्येति सिद्धान्तमाह -

एवमिति ।

उपास्यापरोक्ष्ये दृष्टफले सिद्धे तद्द्वारा दृष्टफलस्यापि सिद्धेरवघातादिवदामरणादनुष्ठानमित्याह -

अन्त्येति ।

अन्त्यप्रत्ययातिरेकेणैवोपासनानां फलप्राप्तियोगान्न तादर्थ्येनावृत्तिरित्याशङ्क्याह -

कर्मणीति ।

किमत्र प्रमाणं तदाह -

सविज्ञान इति ।

विज्ञानेन भोक्तव्यफलविषयभावनामयेन सहितो म्रियमाणो भोक्ता सविज्ञानः । सविज्ञानं विज्ञानेन सहितं फलम् । यस्मिन्वषये चित्तमस्य स यच्चित्तस्तेन विषयेण हृद्यभिव्यक्तेन सह तेज उदानस्तेजोदेवताकत्वादात्मा भोक्ता ।

म्रियमाणस्य भोक्तुर्ज्ञानवत्त्वे दृष्टान्तश्रुतिरपि प्रमाणमित्याह -

तृणेति ।

यत्राप्रत्ययात्मकानामपि कर्मणामन्त्यप्रत्ययाक्षेपेण फलजनकत्वं तत्र प्रत्ययात्मकानामुपासनानां किं वक्तव्यमित्यर्थः ।

तर्हि कर्मवददृष्टद्वाराऽन्त्यप्रत्यायापेक्षोपासनानां स्यान्नेत्याह -

प्रत्ययास्त्विति ।

तेषां धारावाहिकतया दृष्टदारेणाक्षेपकत्वसम्भवे नादृष्टकल्पनेति भावः ।

सर्वभावनानां स्वावान्तरजातीयनिरपेक्षतया भावनात्मकोपासनानां न भावनान्तरापेक्षकत्वं स्वरूपसन्निधानेनैव चादृष्टफलोपयोगितेति मत्वोपसंहरति -

तस्मादिति ।

तत्रापि दृष्टमित्येतद्व्याचष्टे -

तथाचेति ।

उपासकः सर्वनामार्थः । क्रतुः सङ्कल्पविशेषः । अस्माल्लोकादभिमानतो गृहीताद्देहादिति यावत् ।

स्मार्तदर्शनमाश्रित्यापि सूत्रावयवं योजयति -

स्मृतिरिति ।

तत्रैव श्रौतदर्शनान्तरमाह -

सोऽन्तेति ।

पूर्ववदुपासकः सर्वनाम्नोक्तः । अक्षितमस्यच्युतमसि प्राणसंशितमसीति मन्त्रत्रयं स्मरेदित्यनुष्ठेयं मरणकालेऽपि दर्शयन्ती श्रुतिर्विज्ञानावृत्तिं सूचयतीत्यर्थः ॥ १२ ॥