ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ १५ ॥
पूर्वयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुष्कृतयोर्विनाशोऽवधारितः । स किमविशेषेण आरब्धकार्ययोरनारब्धकार्ययोश्च भवति, उत विशेषेणानारब्धकार्ययोरेवेति विचार्यते । तत्र ‘उभे उ हैवैष एते तरति’ (बृ. उ. ४ । ४ । २२) इत्येवमादिश्रुतिष्वविशेषश्रवणादविशेषेणैव क्षय इत्येवं प्राप्ते, प्रत्याह — अनारब्धकार्ये एव त्विति । अप्रवृत्तफले एव पूर्वे जन्मान्तरसञ्चिते, अस्मिन्नपि च जन्मनि प्राग्ज्ञानोत्पत्तेः सञ्चिते, सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते; न तु आरब्धकार्ये सामिभुक्तफले, याभ्यामेतत् ब्रह्मज्ञानायतनं जन्म निर्मितम् । कुत एतत् ? ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इति शरीरपातावधिकरणात्क्षेमप्राप्तेः । इतरथा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात् ज्ञानप्राप्त्यनन्तरमेव क्षेममश्नुवीत । तत्र शरीरपातप्रतीक्षां न आचक्षीत । ननु वस्तुबलेनैव अयमकर्त्रात्मावबोधः कर्माणि क्षपयन् कथं कानिचित्क्षपयेत् कानिचिच्चोपेक्षेत ? न हि समानेऽग्निबीजसम्पर्के केषाञ्चिद्बीजशक्तिः क्षीयते, केषाञ्चिन्न क्षीयते इति शक्यमङ्गीकर्तुमिति । उच्यते — न तावदनाश्रित्य आरब्धकार्यं कर्माशयं ज्ञानोत्पत्तिरुपपद्यते । आश्रिते च तस्मिन्कुलालचक्रवत्प्रवृत्तवेगस्य अन्तराले प्रतिबन्धासम्भवात् भवति वेगक्षयप्रतिपालनम् । अकर्त्रात्मबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्माण्युच्छिनत्ति । बाधितमपि तु मिथ्याज्ञानं द्विचन्द्रज्ञानवत्संस्कारवशात्कंचित्कालमनुवर्तत एव । अपि च नैवात्र विवदितव्यम् — ब्रह्मविदा कञ्चित्कालं शरीरं ध्रियते न वा ध्रियत इति । कथं हि एकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणं च अपरेण प्रतिक्षेप्तुं शक्येत ? श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्देशेन एतदेव निरुच्यते । तस्मादनारब्धकार्ययोरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात्क्षय इति निर्णयः ॥ १५ ॥

तत्त्वज्ञानेन सर्वकर्मणामौत्सर्गिको लयो व्याख्यातः । संप्रत्यारब्धकर्मविषये तदपवादं दर्शयति -

अनारब्धेति ।

वृत्तं कीर्तयन्नधिकरणस्य विषयमाह -

पूर्वयोरिति ।

ज्ञानाधीनं कर्मक्षयं विषयीकृत्य क्षीयन्ते चेत्यविशेषश्रुतेस्तस्य तावदेव चिरमिति श्रुतेश्च संशयमाह -

स किमिति ।

श्रौती ब्रह्मधीरप्रतिबद्धैव फलदेत्यभिधानात्पादादिसङ्गतिः । पूर्वपक्षे क्षेमप्राप्तेरवधिकरणासिद्धिः ।

सिद्धान्ते विदुषोऽपि प्रारब्धकर्मणा कञ्चित्कालमवस्थानात्तत्सिद्धिरित्यङ्गीकृत्य पूर्वाधिकरणन्यायेनपूर्वपक्षयति -

तत्रेति ।

सिद्धान्तसूत्रमवतार्य व्याकरोति -

एवमिति ।

सौत्रावधारणार्थमाह -

न त्विति ।

अर्धभुक्तफले कर्मणी कार्यद्वारा विशिनष्टि -

याभ्यामिति ।

विद्याशङ्क्त्यनुगृहीताविशेषश्रुतेर्विद्वद्देहारम्भकयोरपि कर्मणोर्नाशः स्यादित्याक्षिपति -

कुत इति ।

श्रुत्योत्तरमाह -

तस्येति ।

कथमेतावता कर्मशेषसिद्धिः, तत्राह -

इतरथेति ।

ज्ञानसमकालमेव सर्वकर्मक्षयान्मोक्षे ज्ञानमेव क्षेमप्राप्तेरवधिरिति न देहपातं तदवधिमभिदधीत । तथाच श्रुताववध्यन्तरकरणलिङ्गाज्ज्ञानादूर्ध्वमपि शरीरमनुवर्तमानं कर्मशेषं गमयति तदभावे तदनुवृत्तेरनुपपत्तेरित्यर्थः ।

विद्याया दृष्टसामर्थ्येन कर्मक्षयहेतुत्वान्न शास्त्रेण तन्निराकरणं दृष्टविरोधिनस्तस्य ग्रावप्लवनश्रुतिवदप्रामाण्यदिति शङ्कते -

नन्विति ।

दाहकसंनिध्यविशेषे दाहव्यवस्थासिद्धिरित्यत्र दृष्टान्तमाह -

नहीति ।

तस्य तावदेव चिरमिति विदुषो देहपातावधिकरणलिङ्गम् ।

उद्दालकादीनां तत्त्वविदामेव देहधारणविषयैः श्रुतिस्मृतिलिङ्गैस्तत्त्वविद्भिरपि गुरुभिः शिष्याणां सम्बन्धान्यथानुपपत्त्या चानुगृहीतं मन्त्रादिप्रतिबद्धस्याग्नेरदाहकत्ववज्ज्ञानस्य सर्वकर्मक्षये शक्तस्याप्यारब्धकर्मनिवृत्तौ प्रतिबन्धं कल्पयतीत्याह -

उच्यत इति ।

किञ्च ज्ञानार्थं कर्म स्वयमेव देहमारभ्य ज्ञानं तस्मिन्करोति कर्मान्तरारब्धे वेति विकल्प्याद्यं दूषयति -

नेति ।

नहि ज्ञानार्थस्य कर्मणो देहारम्भकत्वं कल्प्यं गौरवात्तेन कर्मान्तरारब्धे देहे ज्ञानोत्पत्तिरित्यर्थः ।

न द्वितीयः । तथा सति ज्ञानस्योपजीव्यकर्मबाधकत्वानुपपत्तेरित्याह -

आश्रिते चेति ।

अकर्त्रात्मज्ञानं कर्मनिदानमज्ञानं निवर्तयत्युपादानाभावे च कथं कर्मानुवृत्तिः, तत्राह -

अकर्त्रात्मेति ।

कर्माण्यपीति सम्बन्धः । सोपादानानि कर्माण्युच्छिन्नानि चेत्कथमारब्धकर्मानुवृत्तिः, तत्राह -

बाधितमिति ।

स्मृतिहेतुत्वेऽपि संस्कारस्याविद्यावच्चैतन्यदोषत्वादपरोक्षभ्रमहेतुतेत्यभिप्रेत्य संस्कारवशादित्युक्तम् । विप्रतिपन्नान्प्रति जीवन्मुक्तिमुक्त्वा शिष्यान्प्रत्याह -

अपिचेति ।

जीवन्मुक्तिः सप्तम्यर्थः ।

विवादायोगे हेतुमाह -

कथं हीति ।

प्रमाणवत्त्वादपि जीवन्मुक्तिः स्वीकार्येत्याह -

श्रुतीति ।

उक्तमुत्सर्गापवादमुपसंहरति -

तस्मादिति ॥ १५ ॥