ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ १६ ॥
पुण्यस्याप्यश्लेषविनाशयोरघन्यायोऽतिदिष्टःसोऽतिदेशः सर्वपुण्यविषय इत्याशङ्क्य प्रतिवक्तिअग्निहोत्रादि त्वितितुशब्द आशङ्कामपनुदतियन्नित्यं कर्म वैदिकमग्निहोत्रादि, तत् तत्कार्यायैव भवति; ज्ञानस्य यत्कार्यं तदेव अस्यापि कार्यमित्यर्थःकुतः ? तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन’ (बृ. उ. ४ । ४ । २२) इत्यादिदर्शनात्ननु ज्ञानकर्मणोर्विलक्षणकार्यत्वात्कार्यैकत्वानुपपत्तिःनैष दोषः, ज्वरमरणकार्ययोरपि दधिविषयोः गुडमन्त्रसंयुक्तयोस्तृप्तिपुष्टिकार्यदर्शनात् , तद्वत् कर्मणोऽपि ज्ञानसंयुक्तस्य मोक्षकार्योपपत्तेःननु अनारभ्यो मोक्षः, कथमस्य कर्मकार्यत्वमुच्यते ? नैष दोषः, आरादुपकारकत्वात्कर्मणःज्ञानस्यैव हि प्रापकं सत् कर्म प्रणाड्या मोक्षकारणमित्युपचर्यतेअत एव अतिक्रान्तविषयमेतत्कार्यैकत्वाभिधानम् हि ब्रह्मविद आगाम्यग्निहोत्रादि सम्भवति, अनियोज्यब्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात्सगुणासु तु विद्यासु कर्तृत्वानतिवृत्तेः सम्भवति आगाम्यपि अग्निहोत्रादितस्यापि निरभिसन्धिनः कार्यान्तराभावाद्विद्यासङ्गत्युपपत्तिः ॥ १६ ॥

विद्याजन्यकर्मक्षयस्यारब्धकर्मस्वपवादमुक्त्वाऽनारब्धकर्मस्वपि केषुचित्तदपवादं दर्शयति -

अग्निहोत्रादीति ।

वृत्तसङ्कीर्तनपूर्वकमधिकरणस्य तात्पर्यमाह -

पुण्यस्येति ।

अग्निहोत्रादिनित्यनैमित्तिककर्माणि विषयः । तेषामितरवज्ज्ञानेनाश्लेषविनाशौ स्यातां न वेति साधारणश्रुतेर्विविदिषाश्रुतेश्च संशये सुकृतशब्दस्य सर्वपुण्यविषयत्वादग्निहोत्रादीनामपि पुण्यान्तरवद्विनाश्यत्वात्पङ्कक्षालनन्यायापातादारुरुक्षुणापि तानि नानुष्ठेयानीति प्रापय्य सिद्धान्तयति -

इत्याशङ्क्येति ।

अत्र च ब्रह्मविद्यासामर्थ्यान्न नित्यनैमित्तिकनिवृत्तिस्तेषां तदुत्पत्त्यर्थत्वादित्यापवादिकी पादादिसङ्गतिः पूर्वपक्षे लौकिकन्यायादारुरुक्षोरपि नित्याद्यननुष्ठानम् ।

सिद्धान्ते तदनवतारात्पूर्वं ज्ञानोत्पत्तेस्तदनुष्ठाध्रौव्यमित्यभिप्रेत्य सूत्रं व्याचष्टे -

तुशब्द इति ।

धीनाश्यानामपि कर्मणामनुष्ठानस्य विद्योत्पत्त्यर्थतया पङ्कप्रक्षालनन्यायानवकाशात्पूर्वं ज्ञानादनुष्ठेयान्यग्निहोत्रादीनीति सिद्धान्तप्रतिज्ञां विवृणोति -

यदिति ।

अग्निहोत्राद्यनुष्ठानस्य विद्योत्पत्त्यर्थत्वे प्रमाणं पृच्छति -

कुत इति ।

तत्र विविदिषावाक्यं प्रमाणयति -

तमेतमिति ।

कर्मणां विद्योत्पत्त्यर्थत्वेऽपि न तयैककार्यतेति शङ्कते -

नन्विति ।

परमतेन परिहरति -

नेत्यादिना ।

स्वमतं दर्शयितुं शङ्कयति -

नन्विति ।

स्वमतेन समाधत्ते -

नेत्यादिना ।

आरादुपकारकत्वं स्फोरयति -

ज्ञानस्येति ।

किंविषयमिदं कार्यैकत्ववचनं तदाह -

अत इति ।

यतो विद्याकाले परस्ताद्वा कर्म नास्ति प्रागेव तदस्तित्वमत एवेति यावत् ।

धीकाले परस्ताद्वा कर्मासत्त्वं स्फुटयति -

नहीति ।

निर्गुणविद्याविषयत्वं सूत्रस्योपेत्य लाङ्गलभोजनयोर्जीवनहेतुतावद्धीकर्मणोः साक्षात्पारम्पर्याभ्यां मोक्षहेतुत्वमुक्तम् । सम्प्रति सगुणविद्याविषयत्वे सूत्रस्य सामञ्जस्यमभिप्रेत्याह -

सगुणास्विति ।

तथापि तस्य कुतो विद्यासङ्गतिः, तत्राह -

तस्यापीति ।

सगुणविद्याफले नित्यकर्मणां साक्षादुपयोगाभिप्रायमिदं सूत्रमित्यर्थः ॥ १६ ॥