ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
यदेव विद्ययेति हि ॥ १८ ॥
समधिगतमेतदनन्तराधिकरणे — नित्यमग्निहोत्रादिकं कर्म मुमुक्षुणा मोक्षप्रयोजनोद्देशेन कृतमुपात्तदुरितक्षयहेतुत्वद्वारेण सत्त्वशुद्धिकारणतां प्रतिपद्यमानं मोक्षप्रयोजनब्रह्माधिगमनिमित्तत्वेन ब्रह्मविद्यया सह एककार्यं भवतीति । तत्र अग्निहोत्रादि कर्माङ्गव्यपाश्रयविद्यासंयुक्तं केवलं चास्ति — ‘य एवं विद्वान्यजति’ ‘य एवं विद्वाञ्जुहोति’ ‘य एवं विद्वाञ्शंसति’ ‘य एवं विद्वान्गायति’ ‘तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदम्’ (छा. उ. ४ । १७ । १०) ‘तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद’ (छा. उ. १ । १ । १०) इत्यादिवचनेभ्यो विद्यासंयुक्तमस्ति, केवलमप्यस्ति । तत्रेदं विचार्यते — किं विद्यासंयुक्तमेव अग्निहोत्रादिकं कर्म मुमुक्षोर्विद्याहेतुत्वेन तया सह एककार्यत्वं प्रतिपद्यते न केवलम्; उत विद्यासंयुक्तं केवलं च अविशेषेणेति । कुतः संशयः ? ‘तमेतमात्मानं यज्ञेन विविदिषन्ति’ इति यज्ञादीनामविशेषेण आत्मवेदनाङ्गत्वेन श्रवणात् , विद्यासंयुक्तस्य च अग्निहोत्रादेर्विशिष्टत्वावगमात् । किं तावत्प्राप्तम् ? विद्यासंयुक्तमेव कर्म अग्निहोत्रादि आत्मविद्याशेषत्वं प्रतिपद्यते, न विद्याहीनम् , विद्योपेतस्य विशिष्टत्वावगमाद्विद्याविहीनात् — ‘यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान्’(बृ॰उ॰ १-५-२) इत्यादिश्रुतिभ्यः, ‘बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि’ (भ. गी. २ । ३९) ‘दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय’ (भ. गी. २ । ४९) इत्यादिस्मृतिभ्यश्च इत्येवं प्राप्ते प्रतिपाद्यते —

पूर्वोक्ताग्निहोत्रादिष्वेवाङ्गावबद्धोपास्तिसाहित्यानियमं निरूपयति -

यदेवेति ।

वृत्तं कीर्तयति -

समधिगतमिति ।

विचारविषयं दर्शयति -

तत्रेति ।

अङ्गसङ्गिविद्यासंयुक्तत्वे प्रमाणमाह -

य एवमिति ।

नित्यमग्निहोत्रादिकर्म विषयीकृत्य संशयमाह -

तत्रेदमिति ।

प्रश्नपूर्वकं संशयकारणमाह -

कुत इति ।

श्रौतब्रह्मधीहेतुतया प्रकृतनित्यकर्मस्वङ्गाश्रितविद्यासंयोगानियमवादादत्र प्रासङ्गिकी पादादिसङ्गतिः । पूर्वपक्षे केवलकर्मणो मोक्षान्वयासिद्धिः ।

सिद्धान्ते तस्यापि पारम्पर्यात्तत्सिद्धिरिति मत्वा विमृश्य पूर्वपक्षमाह -

किं तावदिति ।

अविशेषतो यज्ञेनेत्यादिश्रुतेरुभयस्यापि कर्मणो विद्याङ्गतेत्याशङ्क्य ब्राह्मणाय दद्यादित्युक्ते विदुषे न तद्धीनायेति विशेषलाभवदिहापीत्याह -

नेत्यादिना ।

विद्यासहितस्य कर्मणो वैशिष्ट्ये मानमाह -

यदहरिति ।

श्रौतेऽर्थे स्मृतिमनुकूलयति -

बुद्ध्येति ।

केवलस्याग्निहोत्रादेर्धीहेतुत्वाभावान्मोक्षान्वयो नेति प्राप्तमनूद्य सिद्धान्तयति -

एवमिति ।