ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
यदेव विद्ययेति हि ॥ १८ ॥
यदेव विद्ययेति हिसत्यमेतत्विद्यासंयुक्तं कर्म अग्निहोत्रादिकं विद्याविहीनात्कर्मणोऽग्निहोत्राद्विशिष्टम् , विद्वानिव ब्राह्मणो विद्याविहीनाद्ब्राह्मणात्; तथापि नात्यन्तमनपेक्षं विद्याविहीनं कर्म अग्निहोत्रादिकम्कस्मात् ? ‘तमेतमात्मानं यज्ञेन विविदिषन्तिइत्यविशेषेण अग्निहोत्रादेर्विद्याहेतुत्वेन श्रुतत्वात्ननु विद्यासंयुक्तस्य अग्निहोत्रादेर्विद्याविहीनाद्विशिष्टत्वावगमात् विद्याविहीनमग्निहोत्रादि आत्मविद्याहेतुत्वेनानपेक्ष्यमेवेति युक्तम्नैतदेवम्; विद्यासहायस्याग्निहोत्रादेर्विद्यानिमित्तेन सामर्थ्यातिशयेन योगात् आत्मज्ञानं प्रति कश्चित्कारणत्वातिशयो भविष्यति, तथा विद्याविहीनस्यइति युक्तं कल्पयितुम् तुयज्ञेन विविदिषन्तिइत्यत्राविशेषेणात्मज्ञानाङ्गत्वेन श्रुतस्याग्निहोत्रादेरनङ्गत्वं शक्यमभ्युपगन्तुम्तथा हि श्रुतिःयदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ (छा. उ. १ । १ । १०) इति विद्यासंयुक्तस्य कर्मणोऽग्निहोत्रादेः वीर्यवत्तरत्वाभिधानेन स्वकार्यं प्रति कञ्चिदतिशयं ब्रुवाणा विद्याविहीनस्य तस्यैव तत्प्रयोजनं प्रति वीर्यवत्त्वं दर्शयतिकर्मणश्च वीर्यवत्त्वं तत् , यत्स्वप्रयोजनसाधनप्रसहत्वम्तस्माद्विद्यासंयुक्तं नित्यमग्निहोत्रादि विद्याविहीनं उभयमपि मुमुक्षुणा मोक्षप्रयोजनोद्देशेन इह जन्मनि जन्मान्तरे प्राग्ज्ञानोत्पत्तेः कृतं यत् , तद्यथासामर्थ्यं ब्रह्माधिगमप्रतिबन्धकारणोपात्तदुरितक्षयहेतुत्वद्वारेण ब्रह्माधिगमकारणत्वं प्रतिपद्यमानं श्रवणमननश्रद्धातात्पर्याद्यन्तरङ्गकारणापेक्षं ब्रह्मविद्यया सह एककार्यं भवतीति स्थितम् ॥ १८ ॥

किं विद्यायुक्तस्य कर्मणो विद्याहीनादन्तरङ्गत्वमुच्यते किंवा केवलं कर्म विद्याहेतुरेव नेति । तत्राद्यमङ्गीकरोति -

सत्यमिति ।

द्वितीयं दूषयति -

तथापीति ।

तत्र प्रश्नपूर्वकं श्रुतिविरोथं हेतुमाह -

कस्मादिति ।

उक्तमर्थमाक्षेपसमाधिभ्यां साधयति -

नन्वित्यादिना ।

केवलस्य कर्मणो विद्यां प्रत्यनङ्गत्वमेव किं न स्यात् , तत्राह -

न त्विति ।

विविदिषन्ति यज्ञेनेत्यविशेषश्रुतमपि विद्यासहिते यज्ञादावुपसंहर्तव्यमित्याशङ्क्य श्रुत्या केवलस्यापि कर्मणो वीर्यवत्त्वाभ्यनुज्ञानान्मैवमिति सूत्रव्याख्यापूर्वकमाह -

तथाहीति ।

वीर्यवत्त्वप्रतीतावपि कुतो विद्यासाधनत्वमित्याशङ्क्याकिञ्चित्करस्य वीर्यवत्त्वायोगादित्याह -

कर्मणश्चेति ।

कर्मणां पारम्पर्येण मोक्षान्वयं दर्शयितुमुपसंहरति -

तस्मादिति ।

विधुरादेराश्रमकर्मस्वनधिकारात्तदीयं जप्यादि विद्यासाधनमित्यन्तरा चापीत्यत्रोक्तम् । इह तु विद्योपेतेषु कर्मसु शक्तस्य तत्त्यागेन केवलकर्मकारिणो न विद्या सेत्स्यतीत्याशङ्क्य समाहितमिति द्रष्टव्यम् ॥ १८ ॥