ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
तन्मनः प्राण उत्तरात् ॥ ३ ॥
समधिगतमेतत्वाङ्मनसि सम्पद्यते’ (छा. उ. ६ । ८ । ६) इत्यत्र वृत्तिसम्पत्तिविवक्षेतिअथ यदुत्तरं वाक्यम् मनः प्राणे’ (छा. उ. ६ । ८ । ६) इति, किमत्रापि वृत्तिसम्पत्तिरेव विवक्ष्यते, उत वृत्तिमत्सम्पत्तिःइति विचिकित्सायाम् , वृत्तिमत्सम्पत्तिरेव अत्र इति प्राप्तम् , श्रुत्यनुग्रहात्तत्प्रकृतित्वोपपत्तेश्चतथा हिअन्नमयꣳ हि सोम्य मन आपोमयः प्राणः’ (छा. उ. ६ । ५ । ४) इत्यन्नयोनि मन आमनन्ति, अब्योनिं प्राणम् । ‘आपश्चान्नमसृजन्त’ — इति श्रुतिःअतश्च यन्मनः प्राणे प्रलीयते, अन्नमेव तदप्सु प्रलीयतेअन्नं हि मनः, आपश्च प्राणः, प्रकृतिविकाराभेदादितिएवं प्राप्ते, ब्रूमःतदपि आगृहीतबाह्येन्द्रियवृत्ति मनो वृत्तिद्वारेणैव प्राणे प्रलीयत इति उत्तराद्वाक्यादवगन्तव्यम्तथा हि सुषुप्सोर्मुमूर्षोश्च प्राणवृत्तौ परिस्पन्दात्मिकायामवस्थितायाम् , मनोवृत्तीनामुपशमो दृश्यते मनसः स्वरूपाप्ययः प्राणे सम्भवति; अतत्प्रकृतित्वात्ननु दर्शितं मनसः प्राणप्रकृतिकत्वम्नैतत्सारम् हि ईदृशेन प्राणाडिकेन तत्प्रकृतित्वेन मनः प्राणे सम्पत्तुमर्हतिएवमपि हि अन्ने मनः सम्पद्येत, अप्सु चान्नम् , अप्स्वेव प्राणः ह्येतस्मिन्नपि पक्षे प्राणभावपरिणताभ्योऽद्भ्यो मनो जायत इति किञ्चन प्रमाणमस्तितस्मात् मनसः प्राणे स्वरूपाप्ययःवृत्त्यप्ययेऽपि तु शब्दोऽवकल्पते, वृत्तिवृत्तिमतोरभेदोपचारात् इति दर्शितम् ॥ ३ ॥

इन्द्रियवृत्तिलयाधारस्य मनसो वृत्तिलयाधारं निरूपयति -

तन्मन इति ।

वृत्तमनूद्याधिकरणस्य विषयमाह -

समधिगतमिति ।

तस्मिन्नपि वाक्येन सवृत्तिकं मनोऽधिकृत्य व्युत्पत्तिद्वैविध्यसिद्ध्या संशयमाह -

किमिति ।

पूर्ववाक्यं दृष्टान्तयितुमपिशब्दः । अत्रापि पूर्ववत्पादादिसङ्गतिः । पूर्वपक्षे श्रुत्यर्थसिद्धिः ।

सिद्धान्ते तदयोगाल्लक्षणास्वीकरणमिति मन्वानो मनःशब्दश्रुत्या पूर्वपक्षयति -

वृत्तीति ।

वाक्शब्दवन्मनःशब्दस्यौपचारिकत्वमाशङ्क्य बाधकाभावादत्र मुख्यार्थत्वमेवेत्याह -

तदिति ।

प्राणप्रकृतिकत्वे मनसो न मानमित्याशङ्क्याह -

तथाहीति ।

अन्नमनसोरप्प्राणयोश्च प्रकृतिविकृतिभावेऽपि कथं प्राणमनसोस्तथात्वं, तत्राह -

अपश्चेति ।

अबन्नयोः प्रकृतिविकृतिभावात्तत्कार्ययोरपि प्राणमनसोः प्रकृतितादात्म्यद्वारा प्रकृतिविकृतित्वसिद्ध्या प्राणे वृत्तिमतो मनसो लय इति फलितमाह -

अतश्चेति ।

प्राणे लीयते मनः सवृत्तिकमिति प्राप्तमनूद्य सिद्धान्तसूत्रमवतार्य व्याकरोति -

एवमिति ।

आगृहीताः सर्वतः स्वात्मन्युपसंहृता बाह्येन्द्रियाणां वृत्तयो येन तन्मनस्तथा । दर्शनादिति पूर्वोक्तयुक्तिमत्र हेतुत्वेन सङ्गृह्णाति -

तथाहीति ।

मनःशब्दश्रुत्या स्वरूपसम्पत्तिरेवेति किं न स्यादित्याशङ्क्याह -

नचेति ।

उक्तं स्मारयित्वा निरस्यति -

नन्वित्यादिना ।

स्वकारणद्वारा विकारयोरन्योन्यं प्रकृतिविकारत्वे घटादेरपि शरावादिप्रकृतित्वप्रसक्तिरित्यसारत्वमेव साधयति -

नहीति ।

प्राणाडिककार्यकारणतोपगमेऽपि यो यस्य साक्षाद्विकारस्तत्रैव तस्य लयो युक्त इत्याह -

एवमपीति ।

प्राणाकारपरिणतानामपां मनःसंस्थितान्नाकारेण परिणामात्प्राणमनसोरपि साक्षात्प्रकृतिविकृतित्वमस्तीत्याशङ्क्याह -

नहीति ।

तयोः साक्षादप्रकृतिविकृतित्वे फलितमाह -

तस्मादिति ।

कथं तर्हि मनःशब्दोपपत्तिः, तत्राह -

वृत्तीति ॥ ३ ॥