ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
सोऽध्यक्षे तदुपगमादिभ्यः ॥ ४ ॥
स्थितमेतत्यस्य यतो नोत्पत्तिः, तस्य तस्मिन्वृत्तिप्रलयः, स्वरूपप्रलय इतिइदमिदानीम्प्राणस्तेजसिइत्यत्र चिन्त्यतेकिं यथाश्रुति प्राणस्य तेजस्येव वृत्त्युपसंहारः, किं वा देहेन्द्रियपञ्जराध्यक्षे जीव इतितत्र श्रुतेरनतिशङ्क्यत्वात् प्राणस्य तेजस्येव सम्पत्तिः स्यात् , अश्रुतकल्पनाया अन्याय्यत्वात्इत्येवं प्राप्ते प्रतिपद्यतेसोऽध्यक्ष इति प्रकृतः प्राणः, अध्यक्षे अविद्याकर्मपूर्वप्रज्ञोपाधिके विज्ञानात्मनि अवतिष्ठते; तत्प्रधाना प्राणवृत्तिर्भवतीत्यर्थःकुतः ? तदुपगमादिभ्यः — ‘एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्रैतदूर्ध्वोच्छ्वासी भवतिइति हि श्रुत्यन्तरम् अध्यक्षोपगामिनः सर्वान्प्राणान् अविशेषेण दर्शयतिविशेषेण तमुत्क्रामन्तं प्राणोऽनूत्क्रामति’ (बृ. उ. ४ । ४ । २) इति पञ्चवृत्तेः प्राणस्य अध्यक्षानुगामितां दर्शयति, तदनुवृत्तितां इतरेषाम् प्राणमनूत्क्रामन्तꣳ सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४ । ४ । २) इति । ‘सविज्ञानो भवतिइति अध्यक्षस्य अन्तर्विज्ञानवत्त्वप्रदर्शनेन तस्मिन् अपीतकरणग्रामस्य प्राणस्य अवस्थानं गमयतिननुप्राणस्तेजसिइति श्रूयते; कथं प्राणोऽध्यक्षे इत्यधिकावापः क्रियते ? नैष दोषः, अध्यक्षप्रधानत्वादुत्क्रमणादिव्यवहारस्य, श्रुत्यन्तरगतस्यापि विशेषस्यापेक्षणीयत्वात् ॥ ४ ॥

यस्मिन्प्राणे मनसो वृत्तिलयस्तस्यापि वृत्तिलयाधारं निरूपयति

सोऽध्यक्ष इति ।

वक्ष्यमाणपूर्वपक्षोपयोगित्वेन वृत्तं कीर्तयति -

स्थितमिति ।

सम्प्रति विषयोक्तिपूर्वकमुभयश्रुत्युपलब्धेः संशयमाह -

इदमिति ।

पादादिसङ्गतयस्तु पूर्ववत् ।

फलभेदोऽपि तथेति स्वीकृत्य पूर्वपक्षयति -

तत्रेति ।

प्राणस्य तेजःप्रकृतिकत्वाभावेऽपि तेजसि वृत्तिलयस्योक्तन्यायेन शक्यशङ्क्यत्वात्तेजःशब्दस्य च भूतविशेषवाचिनो जीवे प्रसिद्ध्यभावात्प्राणस्य जीवात्मन्युपगमनानुगमनावस्थानश्रुतीनां च तेजोद्वाराऽपि तस्मिन्नुपगमनादियोगादुपपत्तेस्तेजस्येव प्राणवृत्तिलय इत्यर्थः ।

सिद्धान्तसूत्रमादाय योजयति -

एवमिति ।

परिशुद्धं चिद्धातुं व्यावर्तयति -

अविद्येति ।

पूर्वोक्तन्यायेन स्वरूपलयं व्यवच्छिनत्ति -

तदिति ।

प्रश्नपूर्वकं हेतूनवतारयति -

कुत इति ।

तत्रोपगमनं श्रुतितो व्याकरोति -

एवमिति ।

यथा राज्ञः प्रयाणाभिप्रायमात्रेण सर्वे भृत्याः समागच्छन्त्येवमिति योजना । एतदिति क्रियाविशेषणम् ।

आदिशब्दगृतीतमनुगमनं श्रुत्या विशदयति -

विशेषेणेति ।

आदिशब्दोपात्तमवस्थानमपि श्रुत्या व्याचष्टे -

सविज्ञान इति ।

विज्ञायतेऽनेनेति विज्ञानं करणजातं तेन पञ्चवृत्तिप्राणसहितेन सह तिष्ठतीति यावत् ।

अव्यवधानेन तेजःप्राप्तिश्रुत्या विरोधं शङ्कते -

नन्विति ।

उभयश्रुत्यनुग्रहाय जीवे प्रलीयते तेन सह प्राणस्य तेजसि लयः स्यादित्याह -

नेत्यादिना ॥ ४ ॥