युक्तिपरं सूत्रमवतारयति -
अत इति ।
तत्र प्रतिज्ञां विभजते -
नैकस्मिन्निति ।
स्थूलदेहस्य पञ्चात्मत्वदृष्टेस्तकत्कारणं सूक्ष्मशरीरमपि पञ्चात्मकमनुमेयमित्युक्तेऽर्थे युक्तिमाह -
कार्यस्येति ।
सूक्ष्मस्य पञ्चात्मकत्वे मानं ब्रुवाणः सूत्रावयवं व्याचष्टे -
दर्शयतश्चेति ।
ननु देहान्तरप्रेप्सावेलायामद्भिरेव परिवेष्टितत्वं प्रश्नप्रतिवचनाभ्यामधिगम्यते न भूतसूक्ष्मपञ्चकपरिवेष्टितत्वं, तत्राह -
तदिति ।
सूत्रावयवस्यार्थान्तरमाह -
श्रुतीति ।
अण्व्यः सूक्ष्मा मीयन्त इति मात्राः प्राङ्मोक्षादविनाशिन्यो दशार्धानां पञ्चानां भूतानामित्यर्थः ।
जीवस्य भूताश्रयत्वं श्रुत्यन्तरविरुद्धमिति शङ्कते -
नन्विति ।
तौ याज्ञवल्क्यार्तभागौ । जीवाधारभूतकर्मणां बन्धप्रयोजकत्वेनाश्रयत्वं भूतानां देहोपादानत्वेनेत्यविरोधमाह -
अत्रेति ।
कर्म हैवेत्यवधारणश्रुत्या वारितमाश्रयान्तरमित्याशङ्क्याह -
प्रशंसेति ।
सोऽपि कर्मणां प्रकृष्टाश्रयत्वं वदन्निकृष्टाश्रयान्तरसत्त्वं सूचयतीत्यर्थः ।
कर्मणां भूतानां चाश्रयत्वसम्भवे फलितमाह -
तस्मादिति ॥ ६ ॥