ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
नैकस्मिन्दर्शयतो हि ॥ ६ ॥
एकस्मिन्नेव तेजसि शरीरान्तरप्रेप्सावेलायां जीवोऽवतिष्ठते, कार्यस्य शरीरस्यानेकात्मकत्वदर्शनात्दर्शयतश्च एतमर्थं प्रश्नप्रतिवचने आपः पुरुषवचसः’ (छा. उ. ५ । ३ । ३) इतितद्व्याख्यातम् त्र्यात्मकत्वात्तु भूयस्त्वात्’ (ब्र. सू. ३ । १ । २) इत्यत्रश्रुतिस्मृती एतमर्थं दर्शयतःश्रुतिः — ‘पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयःइत्याद्या; स्मृतिरपिअण्व्यो मात्राऽविनाशिन्यो दशार्धानां तु याः स्मृताःताभिः सार्धमिदं सर्वं सम्भवत्यनुपूर्वशः’ (म. स्मृ. १ । २७) इत्याद्याननु उपसंहृतेषु वागादिषु करणेषु शरीरान्तरप्रेप्सावेलायाम् क्वायं तदा पुरुषो भवति’ (बृ. उ. ३ । २ । १३) इत्युपक्रम्य श्रुत्यन्तरं कर्माश्रयतां निरूपयतितौ यदूचतुः कर्म हैव तदूचतुरथ यत्प्रशशꣳसतुः कर्म हैव तत्प्रशशꣳसतुः’ (बृ. उ. ३ । २ । १३) इतिअत्रोच्यतेतत्र कर्मप्रयुक्तस्य ग्रहातिग्रहसंज्ञकस्य इन्द्रियविषयात्मकस्य बन्धनस्य प्रवृत्तिरिति कर्माश्रयतोक्ताइह पुनः भूतोपादानाद्देहान्तरोत्पत्तिरिति भूताश्रयत्वमुक्तम्प्रशंसाशब्दादपि तत्र प्राधान्यमात्रं कर्मणः प्रदर्शितम् , त्वाश्रयान्तरं निवारितम्तस्मादविरोधः ॥ ६ ॥

युक्तिपरं सूत्रमवतारयति -

अत इति ।

तत्र प्रतिज्ञां विभजते -

नैकस्मिन्निति ।

स्थूलदेहस्य पञ्चात्मत्वदृष्टेस्तकत्कारणं सूक्ष्मशरीरमपि पञ्चात्मकमनुमेयमित्युक्तेऽर्थे युक्तिमाह -

कार्यस्येति ।

सूक्ष्मस्य पञ्चात्मकत्वे मानं ब्रुवाणः सूत्रावयवं व्याचष्टे -

दर्शयतश्चेति ।

ननु देहान्तरप्रेप्सावेलायामद्भिरेव परिवेष्टितत्वं प्रश्नप्रतिवचनाभ्यामधिगम्यते न भूतसूक्ष्मपञ्चकपरिवेष्टितत्वं, तत्राह -

तदिति ।

सूत्रावयवस्यार्थान्तरमाह -

श्रुतीति ।

अण्व्यः सूक्ष्मा मीयन्त इति मात्राः प्राङ्मोक्षादविनाशिन्यो दशार्धानां पञ्चानां भूतानामित्यर्थः ।

जीवस्य भूताश्रयत्वं श्रुत्यन्तरविरुद्धमिति शङ्कते -

नन्विति ।

तौ याज्ञवल्क्यार्तभागौ । जीवाधारभूतकर्मणां बन्धप्रयोजकत्वेनाश्रयत्वं भूतानां देहोपादानत्वेनेत्यविरोधमाह -

अत्रेति ।

कर्म हैवेत्यवधारणश्रुत्या वारितमाश्रयान्तरमित्याशङ्क्याह -

प्रशंसेति ।

सोऽपि कर्मणां प्रकृष्टाश्रयत्वं वदन्निकृष्टाश्रयान्तरसत्त्वं सूचयतीत्यर्थः ।

कर्मणां भूतानां चाश्रयत्वसम्भवे फलितमाह -

तस्मादिति ॥ ६ ॥