मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायः
द्वितीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
नैकस्मिन्दर्शयतो हि ॥ ६ ॥
कथं तेजःसहचरितेषु भूतेष्वित्युच्यते, यावता एकमेव तेजः श्रूयते — ‘प्राणस्तेजसि’ इति ? अत आह —
कथमिति
;
सूत्रान्तरमवतारयितुं पृच्छति -
कथमिति ।
लक्षणया भूतान्तराश्रयणमयुक्तं युक्त्यभावादिति भावः ।