ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अस्यैव चोपपत्तेरेष ऊष्मा ॥ ११ ॥
अस्यैव सूक्ष्मस्य शरीरस्य एष ऊष्मा, यमेतस्मिञ्च्छरीरे संस्पर्शेनोष्माणं विजानन्तितथा हि मृतावस्थायाम् अवस्थितेऽपि देहे विद्यमानेष्वपि रूपादिषु देहगुणेषु, ऊष्मा उपलभ्यते, जीवदवस्थायामेव तु उपलभ्यतेइत्यत उपपद्यते

सूक्ष्मदेहसद्भावे मानमौष्ण्यलिङ्गकमनुमानमपीत्याह -

अस्यैवेति ।

सूत्रं विवृण्वन्ननुमानमेव स्फोरयति -

अस्येति ।

औष्ण्यस्य सूक्ष्मदेहे व्यभिचारमाशङ्क्योपपत्तेरिति योजयति -

तथाहीति ।