ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अतश्चायनेऽपि दक्षिणे ॥ २० ॥
अत एव उदीक्षानुपपत्तेः, अपाक्षिकफलत्वाच्च विद्यायाः, अनियतकालत्वाच्च मृत्योः, दक्षिणायनेऽपि म्रियमाणो विद्वान् प्राप्नोत्येव विद्याफलम्उत्तरायणमरणप्राशस्त्यप्रसिद्धेः, भीष्मस्य प्रतीक्षादर्शनात् , आपूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाꣳस्तान्’ (छा. उ. ४ । १५ । ५) इति श्रुतेः, अपेक्षितव्यमुत्तरायणम्इतीमामाशङ्काम् अनेन सूत्रेणापनुदतिप्राशस्त्यप्रसिद्धिः अविद्वद्विषयाभीष्मस्य तूत्तरायणप्रतिपालनम् आचारपरिपालनार्थं पितृप्रसादलब्धस्वच्छन्दमृत्युताख्यापनार्थं श्रुतेस्तु अर्थं वक्ष्यति आतिवाहिकास्तल्लिङ्गात्’ (ब्र. सू. ४ । ३ । ४) इति ॥ २० ॥

पूर्वाभिरेव युक्तिभी रात्राविव दक्षिणायनेऽपि मृतस्य फलप्राप्तिरविशिष्टेत्याह -

अतश्चेति ।

दक्षिणायने मृतो विद्वान्विषयः स किं विद्याफलं नाप्नोत्युताप्नोतीत्युत्तरायणमरणप्राशस्त्यप्रसिद्धेर्नित्यवत्फलसंबन्धेन विद्याया विधानाच्च सन्देहे दक्षिणायनेऽपि मृतस्य ब्रह्मविदो विद्याफलमवश्यम्भावीति साधनात्पादादिसङ्गतिः । पूर्वपक्षे दक्षिणायने मृतस्य फलाभावादुत्तरायणमरणार्थं प्रयतितव्यम् ।

सिद्धान्ते हेतुसिद्धेस्तादृक्प्रयत्नो नातीव फलवानित्यभिप्रेत्य सिद्धान्तमाह -

अत इति ।

पूर्वाधिकरणन्यायेन सिद्धान्तमुक्त्वा पूर्वपक्षमाह -

उत्तरायणेति ।

श्रुतिस्मृतिप्रसिद्धिभ्यो दक्षिणायने मृतस्य विदुषो नास्ति फलाप्तिरिति पूर्वपक्षमनूद्य सिद्धान्तमाह -

इतीमामिति ।

अपनोदप्रकारमाह -

प्राशस्त्येति ।

यत्तु भीष्मस्य प्रतीक्षादर्शनादिति, तत्राह -

भीष्मस्येति ।

उत्तरायणमरणं प्रशस्तमित्यविदुषामभिज्ञाभिवचनरूपो व्यवहारस्तत्पालनद्वारा सदाचारे तान्प्रवर्तयितुं तस्य कालप्रतीक्षणमित्यर्थः ।

तत्प्रतिपालनस्य गत्यन्तरमाह -

पित्रिति ।

उत्तरायणस्य मार्गपर्वत्वेनापेक्षेणीयत्वं श्रुतमित्युक्तं तत्कुतो दक्षिणायने मृतो विद्वान्विद्याफलमाप्नुयादित्याशङ्क्याह -

श्रुतेस्त्विति ।

नहि कालवादिनी श्रुतिः किं त्वातिवाहिकदेवतार्थेत्यर्थः ॥ २० ॥