ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥ २१ ॥
योगिनः प्रति अयम् अहरादिकालविनियोगः अनावृत्तये स्मर्यतेस्मार्ते चैते योगसाङ्ख्ये, श्रौतेअतो विषयभेदात् प्रमाणविशेषाच्च नास्य स्मार्तस्य कालविनियोगस्य श्रौतेषु विज्ञानेषु अवतारःननु अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।’ (भ. गी. ८ । २४) धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्’ (भ. गी. ८ । २५) इति श्रौतावेतौ देवयानपितृयाणौ प्रत्यभिज्ञायेते स्मृतावपीति, उच्यतेतं कालं वक्ष्यामि’ (भ. गी. ८ । २३) इति स्मृतौ कालप्रतिज्ञानात् विरोधमाशङ्क्य अयं परिहारः उक्तःयदा पुनः स्मृतावपि अग्न्याद्या देवता एव आतिवाहिक्यो गृह्यन्ते, तदा कश्चिद्विरोध इति ॥ २१ ॥

तदुत्तरत्वेन सूत्रमवतारयति -

अत्रेति ।

स्मार्तमुपासनं प्रत्ययं कालभेदविनियोगः स्मार्तोऽभ्युपगम्यते प्रत्यासत्तेरिति व्याचष्टे -

योगिन इति ।

योगी दहराद्युपासक एव किं न स्यात् , तत्राह -

स्मार्ते चेति ।

नित्यमग्निहोत्रादीश्वराराधनरूपेण यदनुष्ठीयते स योगः ‘अनाश्रितः कर्मफलम्’ इत्यादिस्मृतेः । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारणापूर्वकोऽकर्तृत्वानुभवः साङ्ख्यमिति भेदः ।

श्रौतदहराद्युपास्तीनां स्मृत्यविषयत्वे फलितमाह -

अत इति ।

श्रुतिस्मृत्योर्भिन्नार्थत्वं प्रत्यभिज्ञाविरुद्धमिति शङ्कते -

नन्विति ।

कालभेदविधिपरत्वमङ्गीकृत्य विषयव्यवस्थोक्ता प्रत्यभिज्ञानेन कालाभिधानद्वारा देवतोक्तौ श्रुतिस्मृत्योरेकार्थत्वमेवेति कुतो विरोधशङ्केत्याह -

उच्यत इति ।

तदेवं दक्षिणायने मृतस्यापि विदुषो विद्याफलमवश्यम्भावीत्यधिकरणार्थमुपसंहर्तुमितीत्युक्तम् ॥ २१ ॥