योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥ २१ ॥
ननु च ‘यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ’ (भ. गी. ८ । २३) इति कालप्राधान्येन उपक्रम्य अहरादिकालविशेषः स्मृतावनावृत्तये नियमितः । कथं रात्रौ दक्षिणायने वा प्रयातोऽनावृत्तिं यायात् — इत्यत्रोच्यते —