ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
वायुमब्दादविशेषविशेषाभ्याम् ॥ २ ॥
केन पुनः सन्निवेशविशेषेण गतिविशेषणानाम् इतरेतरविशेषणविशेष्यभावःइति तदेतत् सुहृद्भूत्वा आचार्यो ग्रथयति एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति वायुलोकं वरुणलोकं आदित्यलोकं इन्द्रलोकं प्रजापतिलोकं ब्रह्मलोकम्’ (कौ. उ. १ । ३) इति कौषीतकिनां देवयानः पन्थाः पठ्यतेतत्र अर्चिरग्निलोकशब्दौ तावत् एकार्थौ ज्वलनवचनत्वादिति नात्र सन्निवेशक्रमः कश्चिदन्वेष्यःवायुस्तु अर्चिरादौ वर्त्मनि अश्रुतः कतमस्मिन्स्थाने निवेशयितव्य इति, उच्यतेतेऽर्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाꣳस्तान् ।’ (छा. उ. ५ । १० । १) मासेभ्यः संवत्सरं संवत्सरादादित्यम्’ (छा. उ. ५ । १० । २) इत्यत्र संवत्सरात्पराञ्चम् आदित्यादर्वाञ्चं वायुमभिसम्भवन्तिकस्मात् ? अविशेषविशेषाभ्याम्तथा हि वायुलोकम्’ (कौ. उ. १ । ३) इत्यत्र अविशेषोपदिष्टस्य वायोः श्रुत्यन्तरे विशेषोपदेशो दृश्यतेयदा वै पुरुषोऽस्माल्लोकात्प्रैति वायुमागच्छति तस्मै तत्र विजिहीते यथा रथचक्रस्य खं तेन ऊर्ध्वमाक्रमते आदित्यमागच्छति’ (बृ. उ. ५ । १० । १) इतिएतस्मात् आदित्यात् वायोः पूर्वत्वदर्शनात् विशेषात् अब्दादित्ययोरन्तराले वायुर्निवेशयितव्यःकस्मात्पुनरग्नेः परत्वदर्शनाद्विशेषादर्चिषोऽनन्तरं वायुर्न निवेश्यते ? नैषोऽस्ति विशेष इति वदामःननूदाहृता श्रुतिः एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति वायुलोकं वरुणलोकम्’ (कौ. उ. १ । ३) इतिउच्यतेकेवलोऽत्र पाठः पौर्वापर्येणावस्थितः, नात्र क्रमवचनः कश्चिच्छब्दोऽस्तिपदार्थोपदर्शनमात्रं ह्यत्र क्रियतेएतं एतं आगच्छतीतिइतरत्र पुनः, वायुप्रत्तेन रथचक्रमात्रेण च्छिद्रेण ऊर्ध्वमाक्रम्य आदित्यमागच्छतीतिअवगम्यते क्रमःतस्मात् सूक्तम् अविशेषविशेषाभ्यामितिवाजसनेयिनस्तु मासेभ्यो देवलोकं देवलोकादादित्यम्’ (बृ. उ. ६ । २ । १५) इति समामनन्तितत्र आदित्यानन्तर्याय देवलोकाद्वायुमभिसम्भवेयुः । ‘वायुमब्दात्इति तु छन्दोगश्रुत्यपेक्षयोक्तम्छान्दोग्यवाजसनेयकयोस्तु एकत्र देवलोको विद्यते, परत्र संवत्सरःतत्र श्रुतिद्वयप्रत्ययात् उभावपि उभयत्र ग्रथयितव्यौतत्रापि माससम्बन्धात्संवत्सरः पूर्वः पश्चिमो देवलोक इति विवेक्तव्यम् ॥ २ ॥

सर्वात्रार्चिरादिमार्गपर्वप्रत्यभिज्ञानाद्गत्यैक्यमुक्तम् । संप्रत्येतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकमित्यत्रार्चिरात्मकाग्न्यानन्तर्यप्रत्यभिज्ञानादर्चिषोऽनन्तरं निवेशनीयो वायुरित्याशङ्क्याह -

वायुमिति ।

इतरेतरविशेषणविशेष्यत्वेनोपसंहारोऽर्चिरादीनामुक्तः स कीदृश इति विचारयति -

केनेति ।

मार्गपर्वणां विशेषणविशेष्यत्वे सिद्धे योग्यतया स्वयमेव संनिवेशविशेषसिद्धेरनर्थकं तन्निरूपणमित्याशङ्क्याह -

सुहृदिति ।

संनिवेशविशेषणविशिष्टं विशेषणविशेष्यत्वं तदेतदित्युक्तम् । सङ्क्षेपतोऽधिकरणस्य तात्पर्यमुक्त्वा विषयमाह -

स इति ।

तत्र प्रथमश्रुतमग्निलोकमतिक्रम्य किमिति वायोः संनिवेशो विचार्यते, तत्राह -

तत्रेति ।

असन्दिग्धमंशमुक्त्वा सन्दिग्धमंशमाह -

वायुस्त्विति ।

अर्चिषोऽनन्तरमग्निलोकं वायुलोकमिति पाठक्रमबलाद्बायुर्निवेशयितव्यः किंवा वक्ष्यमाणन्यायेन संवत्सरदेवलोकयोः परस्तादादित्यस्य चार्वागिति संशयात्स एव विचारविषय इत्यर्थः । अत्र चापरविद्याफलार्थं मार्गपर्वणां संनिवेशविशेषचिन्तनात्पादादिसङ्गतिः ।

पूर्वपक्षे पाठानुक्रमस्यानुसरणं सिद्धान्ते त्वर्थक्रमात्तस्य बाध्यतेति मन्वानो वायोरादित्यादव्यवहितपूर्वत्वेन संनिवेशं सिद्धान्तमाह -

उच्यत इति ।

पाठक्रमादग्नेरनन्तरं निवेशनीयो वायुरिति शङ्कते -

कस्मादिति ।

सूत्रपदेनोत्तरमाह -

अविशेषेति ।

विशेषदर्शनस्यैव स्थानविशेषसंनिवेशहेतुत्वेऽपि वायोरचिरादिके पथि सामान्यप्राप्तावविशेषोक्तिरपि हेतुरिति मत्वा व्याचष्टे -

तथाहीति ।

कौषीतकिश्रुतेर्वाजसनेयिश्रुतिः श्रुत्यन्तरम् । पुरुषो ध्याता । लोको देहः । प्रैतीत्यत्र तदेति द्रष्टव्यं यदेत्युपक्रमात् । तस्मै प्राप्तायोपासकाय वायुस्तत्र स्वात्मनि विजिहीते द्वारं प्रयच्छतीति यावत् ।

वायुप्रत्तद्वारपरिमाणं दृष्टान्तेन स्पष्टयति -

यथेति ।

विशेषोक्तिफलं निगमयति -

एतस्मादिति ।

सिद्धान्तेनोपक्रम्य पूर्वपक्षमाह -

कस्मादिति ।

पाठक्रमादर्चिषोऽनन्तरं निवेशनीयो वायुरित्यर्थः ।

वायुप्रत्तमार्गेणैवोर्ध्वमादित्यमाक्रमत इत्यूर्ध्वत्वश्रुतेर्दिग्वचनत्वेऽप्यर्थक्रमद्योतित्वात्तेनेति च वायुप्रत्तरथचक्रपरिमितावकाशस्योर्ध्वक्रमणं प्रति हेतुत्वसिद्धेर्वायोरपि तन्निमित्तत्वदृष्टेरूर्ध्वशब्दश्रुतिसिद्धार्थक्रमेण पाठक्रमो बाध्यत इत्याह -

नेत्यादिना ।

उक्तमेवार्थं विवृण्वन्नाशङ्कते -

नन्विति ।

तत्र सिद्धान्ती स्वाभिप्रायमाह -

उच्यत इति ।

तर्हि वाक्यस्य वैयर्थ्यं नेत्याह -

पदार्थेति ।

स्वरपविधिपरमेतद्वचनं न क्रमपरमित्यर्थः ।

वाजसनेयिश्रुतावपि क्रमवाचिशब्दो नास्तीत्याशङ्क्याह -

इतरत्रेति ।

कौषीतकिवाक्योक्तस्य वायोश्छान्दोग्योपदिष्टार्चिरादिमार्गे निवेशनमुक्तमुपसंहरति -

तस्मादिति ।

वाजसनेयिनां संवत्सराश्रवणात्कथं वायुमब्दादिति सूत्रं, तत्राह -

वाजसनेयिनस्त्विति ।

तर्हि देवलोकाद्वायुलोकमिति वक्तव्यमित्याशङ्क्य छान्दोग्याभिप्रायेणैतदुक्तमित्याह -

वायुमिति ।

क्रमस्तर्हि कः स्यादित्याशङ्क्योभयश्रुत्यालोचनया क्रमं दर्शयति -

छान्दोग्येति ।

तर्हि कथमेकवाक्यत्वं, तत्राह -

तत्रेति ।

तर्हि देवलोकस्य प्राथम्यं संवत्सरस्य पाश्चात्यं किं न स्यात् , तत्राह -

तत्रापीति ।

संवत्सरस्य मासारभ्यत्वान्मासानन्तर्ये स्थिते देवलोकः संवत्सरस्य परस्ताद्भवत्यादित्यानन्तर्याय देवलोकादपि वायुरुपरिष्टाद्द्रष्टव्यः । सूत्रे तु संवत्सराद्देवलोकं प्राप्य वायुमभिसम्भवतीति विवक्षितं वायुशब्दस्य देवलोकोपलक्षणार्थत्वात् । अतः श्रुतित्रयवशाद्देवलोकसहितवायोः संवत्सरादित्यान्तरालवर्तित्वमित्यर्थः ॥ २ ॥