ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
तडितोऽधि वरुणः सम्बन्धात् ॥ ३ ॥
आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतम्’ (छा. उ. ४ । १५ । ५) इत्यस्या विद्युत उपरिष्टात् वरुणलोकम्इत्ययं वरुणः सम्बध्यतेअस्ति हि सम्बन्धो विद्युद्वरुणयोःयदा हि विशाला विद्युतस्तीव्रस्तनितनिर्घोषा जीमूतोदरेषु प्रनृत्यन्ति, अथ आपः प्रपतन्तिविद्योतते स्तनयति वर्षिष्यति वा’ (छा. उ. ७ । ११ । १) इति ब्राह्मणम्अपां अधिपतिर्वरुण इति श्रुतिस्मृतिप्रसिद्धिःवरुणादधि इन्द्रप्रजापती स्थानान्तराभावात् पाठसामर्थ्याच्चआगन्तुकत्वादपि वरुणादीनामन्ते एव निवेशः, वैशेषिकस्थानाभावात्विद्युच्च अन्त्या अर्चिरादौ वर्त्मनि ॥ ३ ॥

वायोः संनिवेशे दर्शिते तदनन्तरपठितवरुणादिसंनिवेशं दर्शयति -

तडितोऽधि वरुण इति ।

स वरुणलोकमित्यादिना श्रुतो वरुणादिर्विषयः स किमर्चिरादिमार्गपर्वत्वेन न सम्बध्यते किंवा सम्बध्यत इति तस्य तत्र संनिवेशस्थानासम्भवसम्भवाभ्यां सन्देहे स वायुलोकं स वरुणलोकमिति वरुणादीनां पाठक्रमेण वायोरूर्ध्वमादित्यात्प्रागूर्ध्वश्रुतिसिद्धार्थक्रमविरोधेन निवेशासिद्धेर्विद्युतश्चोपरिष्टादमानवपुरुषस्यैव नेतृत्वश्रवणाद्वरुणादीनामनुपयोगान्निवेशस्थानान्तरादृष्टेश्च तेषां मार्गपर्वत्वेन सम्बन्धो नास्तीति प्राप्ते सिद्धान्तमाह -

आदित्यादिति ।

विद्युतोऽनन्तरं वरुणसंनिवेशे सूत्रोक्तं हेतुमाह -

अस्तीति ।

तत्र लोकप्रसिद्धिमनुकूलयति -

यदेति ।

विद्युदुद्भवानन्तरं वृष्टेर्दृष्टत्वात्कार्यकारणभावस्तयोरस्तीत्यर्थः ।

तत्रैव श्रुतिं संवादयति -

विद्योतत इति ।

अपां विद्युद्योगेऽपि वरुणस्य किमायातं तदाह -

अपां चेति ।

वायोरनन्तरमधीतस्यापि वरुणस्य विद्युदानन्तर्यवदिन्द्रप्रजापत्योर्वरुणानन्तरमधीतयोरपि स्थानान्तरं वाच्यमित्याशङ्क्याह -

वरुणाच्चेति ।

तर्हि तयोर्मार्गपर्वत्वेन सङ्गतिरेव मा भूदित्याशङ्क्याह -

पाठेति ।

आगन्तूनामन्ते निवेश इतिन्यायाच्चासाधारणस्थानहीनानां वरुणादीनां तडिदानन्तर्यमुक्तमित्याह -

आगन्तुकत्वादिति ।

यथा दर्शपूर्णमासिकविकृतौ नक्षत्रेष्टौ सोऽत्र जुहोत्यग्नये स्वाहा कृत्तिकाभ्यः स्वाहेत्यादीनामुपहोमानां प्रधानशब्दगृहीतप्रकृतनारिष्टहोमान्ते प्रयोगो निरूपितस्तथार्चिरादिमार्गेऽपि स्थानाभावेनागन्तूनामन्ते निवेशः स्यादिति भावः ।

कथं विद्युतोऽन्त्यत्वं नहि तदन्त्यत्ववाची शब्दोऽस्तीत्याशङ्क्य विद्युदनन्तरं पर्वान्तरस्यानुक्तेस्तदन्त्यत्वमित्याह -

विद्युच्चेति ।

वरुणादीनामुपयोगस्त्वमानवेन सह नेतृत्वसम्भवादिति वक्ष्यते । अत्र च विद्याफलार्थे पथि वरुणादीनां संनिवेशोक्त्या पादादिसङ्गतिः । पूर्वपक्षे वरुणादिपाठस्यादृष्टार्थत्वं सिद्धान्ते वरुणादीनां स्थानान्तराभावेऽप्यागन्तूनामन्ते निवेशात्पाठस्य दृष्टार्थतेवेति द्रष्टव्यम् ॥ ३ ॥