ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
आतिवाहिकास्तल्लिङ्गात् ॥ ४ ॥
तेष्वेव अर्चिरादिषु संशयः — किमेतानि मार्गचिह्नानि, उत भोगभूमयः, अथवा नेतारो गन्तॄणामिति । तत्र मार्गलक्षणभूता अर्चिरादय इति तावत्प्राप्तम् , तत्स्वरूपत्वादुपदेशस्य । यथा हि लोके कश्चिद्ग्रामं नगरं वा प्रतिष्ठासमानोऽनुशिष्यते — गच्छ इतस्त्वममुं गिरिं ततो न्यग्रोधं ततो नदीं ततो ग्रामं नगरं वा प्राप्स्यसीति — एवमिहापि ‘अर्चिषोऽहरह्न आपूर्यमाणपक्षम्’ इत्याद्याह । अथवा भोगभूमय इति प्राप्तम् । तथाहि लोकशब्देन अग्न्यादीननुबध्नाति — ‘अग्निलोकमागच्छति’ (कौ. उ. १ । ३) इत्यादि । लोकशब्दश्च प्राणिनां भोगायतनेषु भाष्यते — ‘मनुष्यलोकः पितृलोको देवलोकः’ (बृ. उ. १ । ५ । १६) इति च । तथा च ब्राह्मणम् — ‘अहोरात्रेषु ते लोकेषु सज्जन्ते’ इत्यादि । तस्मान्नातिवाहिका अर्चिरादयः । अचेतनत्वादप्येतेषामातिवाहिकत्वानुपपत्तिः । चेतना हि लोके राजनियुक्ताः पुरुषा दुर्गेषु मार्गेष्वतिवाह्यान् अतिवाहयन्तीति । एवं प्राप्ते, ब्रूमः — आतिवाहिका एवैते भवितुमर्हन्ति । कुतः ? तल्लिङ्गात् । तथा हि — ‘चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इति सिद्धवद्गमयितृत्वं दर्शयति । तद्वचनं तद्विषयमेवोपक्षीणमिति चेत् , न, प्राप्तमानवत्वनिवृत्तिपरत्वाद्विशेषणस्य । यद्यर्चिरादिषु पुरुषा गमयितारः प्राप्ताः ते च मानवाः, ततो युक्तं तन्निवृत्त्यर्थं पुरुषविशेषणम् — अमानव इति ॥ ४ ॥

अर्चिरादीनां क्रमं निरूप्य स्वरूपं निरूपयति -

आतिवाहिका इति ।

विषयोक्तिपूर्वकमुक्तिसाम्याल्लोकशब्दादतिनेतृत्वलिङ्गाच्च संशयमाह -

तेष्वेवेति ।

अत्र च विद्याफलप्राप्त्यर्थमर्चिरादावध्वनि प्रवृत्तस्य विदुषो गमयितृत्वचिन्तनात्पादादिसङ्गतिः ।

पूर्वपक्षे निर्देशस्य लोकश्रुतेर्वा मुख्यत्वं सिद्धान्ते न्यायवल्लिङ्गस्येत्यङ्गीकृत्य पूर्वपक्षमाह -

तत्रेति ।

उक्तेऽर्थे निर्देशसाम्यं हेतुमाह -

तदिति ।

उक्तमेव हेतुुं दृष्टान्तेन स्पष्टयति -

यथेति ।

पूर्वपक्षान्तरमाह -

अथवेति ।

कथं लोकशब्दप्रयोगेऽप्यर्चिरादीनां भोगभूमित्वं, तत्राह -

लोकेति ।

मार्गपर्वणां भोगभूमित्वे श्रुतिमपि दर्शयति -

तथाचेति ।

अहोरात्रप्रभृतिषु लोकशब्दितेषु भोगायतनेषु ते कर्मिणो ज्ञानिनश्च सक्तिं भोगमनुभवन्तीति यावत् ।

पक्षद्वयेऽपि फलितमाह -

तस्मादिति ।

अर्चिरादिशब्दानामचेतनेष्वग्न्यादिषु रूढत्वादपि न तेषामातिवाहिकतेत्याह -

अचेतनत्वादिति ।

तदेव व्यतिरेकदृष्टान्तेन स्फोरयति

चेतना हीति ।

सिद्धान्तसूत्रमादाय प्रतिज्ञां विभजते -

एवमिति ।

तत्र हेतुं प्रश्नपूर्वकमादाय व्याचष्टे -

कुत इति ।

अमानवपुरुषस्य विद्युदादावातिवाहिकत्वदृष्टेरर्चिरादीनामपि तदुन्नेयमित्यर्थः ।

यावद्वचनं वाचनिकमिति न्यायान्न तेषामातिवाहिकत्वसाधकमेतदिति शङ्कते -

तदिति ।

उभयपरत्वे वाक्यभेदः स्यादिति भावः ।

प्राप्तगमयितृमानवपुरुषानुवादेनाप्राप्तामानवत्ववादित्वाद्वाक्यस्योभयपरत्वेन वाक्यभेदप्रसङ्गात्पूर्वेषामपि मानवपुरुषतया गमययितृत्वं ग्राह्यमित्याह -

नेति ।

उक्तमेव प्रपञ्चयति -

यदीति ॥ ४ ॥