ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
उभयव्यामोहात्तत्सिद्धेः ॥ ५ ॥
ये तावदर्चिरादिमार्गगाः ते देहवियोगात् सम्पिण्डितकरणग्रामा इति अस्वतन्त्राः, अर्चिरादीनामप्यचेतनत्वादस्वातन्त्र्यम् — इत्यतः अर्चिराद्यभिमानिनश्चेतना देवताविशेषा अतियात्रायां नियुक्ता इति गम्यते । लोकेऽपि हि मत्तमूर्छितादयः सम्पिण्डितकरणाः परप्रयुक्तवर्त्मानो भवन्ति । अनवस्थितत्वादप्यर्चिरादीनां न मार्गलक्षणत्वोपपत्तिः । न हि रात्रौ प्रेतस्य अहःस्वरूपाभिसम्भव उपपद्यते । न च प्रतिपालनमस्तीत्युक्तं पुरस्तात् । ध्रुवत्वात्तु देवतात्मनां नायं दोषो भवति । अर्चिरादिशब्दता च एषाम् अर्चिराद्यभिमानादुपपद्यते । ‘अर्चिषोऽहः’ (छा. उ. ४ । १५ । ५) इत्यादिनिर्देशस्तु आतिवाहिकत्वेऽपि न विरुध्यते — अर्चिषा हेतुना अहरभिसम्भवति, अह्ना हेतुना आपूर्यमाणपक्षमिति । तथा च लोके प्रसिद्धेष्वप्यातिवाहिकेषु एवंजातीयक उपदेशो दृश्यते — गच्छ त्वम् इतो बलवर्माणं ततो जयसिंहं ततः कृष्णगुप्तमिति । अपि च उपक्रमे ‘तेऽर्चिरभिसम्भवन्ति’ (बृ. उ. ६ । २ । १५) इति सम्बन्धमात्रमुक्तम् , न सम्बन्धविशेषः कश्चित् । उपसंहारे तु ‘स एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इति सम्बन्धविशेषः अतिवाह्यातिवाहकत्वलक्षण उक्तः । तेन स एवोपक्रमेऽपीति निर्धार्यते । सम्पिण्डितकरणत्वादेव च गन्तॄणां न तत्र भोगसम्भवः । लोकशब्दस्तु अनुपभुञ्जानेष्वपि गन्तृषु गमयितुं शक्यते, अन्येषां तल्लोकवासिनां भोगभूमित्वात् । अतः अग्निस्वामिकं लोकं प्राप्तः अग्निना अतिवाह्यते, वायुस्वामिकं प्राप्तो वायुना — इति योजयितव्यम् ॥ ५ ॥

चेतनस्य यत्नहीनस्योर्ध्वगतिश्चेतनान्तराधीनेति लौकिकन्यायेन यत्नहीनानां गन्तॄणां गमयितारोऽर्चिरादयश्चेतनाः स्युरिति सूत्रयोजनया ब्रूते -

ये तावदिति ।

उभयोर्मार्गतद्गन्त्रोर्व्यामोहादज्ञत्वात्तत्सिद्धेर्गमयितृसिद्धेर्न न्यायहीनं लिङ्गमित्युक्त्वा न्यायमेव स्फुटयति -

लोकेऽपीति ।

पूर्वपक्षद्वयायोगे हेत्वन्तरमाह -

अनवस्थितत्वादिति ।

अहःशुक्लपक्षोत्तरायणानां कालान्तरेषु मार्गचिह्नत्वभोगभूमित्वे न सम्भाव्येते तदा तेषामभावादिति हेतुं साधयति -

नहीति ।

तर्हि तदागमनं प्रतीक्ष्य रात्र्यादौ प्रेतो गमिष्यति नेत्याह -

नचेति ।

अनवस्थितत्वाविशेषादातिवाहिकत्वमपि कुतस्तेषामित्याशङ्क्याह -

ध्रुवत्वादिति ।

अर्चिरादिशब्दानामचेतनेषु रूढेर्न तेषां देवतावाचितेत्याशङ्क्याह -

अर्चिरादीति ।

न चाभिमतव्याहारादिदेहाभावे तद्देवतानामनवस्थानमिति वाच्यम् । ऐश्वर्ययोगात्तासामनेकविग्रहग्रहणयोगात् । अतो देवदत्तादिशब्दवदर्थतश्चेतनेषु मुख्यतेत्यर्थः ।

जाड्याद्बद्ध इत्यादौ गुणवचनेषु जाड्यादिषु पञ्चमीदर्शनादर्चिरादीनां च गुणवचनत्वाभावाद्वहनं प्रत्यर्चिरादीनां हेतुत्वानवगमादर्चिष इत्यस्मादपादानत्वप्रतीतेर्नातिवाहिकत्वसिद्धिरित्याशङ्‌क्याह -

अर्चिष इति ।

तार्किकप्रक्रियासिद्धगुणत्वाभावेऽप्याश्रितत्वेन तत्सिद्धेर्हेतावेषा पञ्चमीत्यार्थः ।

उक्तेऽर्थे लौकिकव्यपदेशं दर्शयति -

तथाचेति ।

इतश्चार्चिरादिशब्दानां गमयितृविषयतेत्याह -

अपिचेति ।

सामान्यवचने शब्दे विशेषापेक्षिणि दृष्टे विशेषशब्देन तत्सामान्यं नियन्तव्यमितिन्यायादतिवाह्यातिवाहकसम्बन्धसिद्धिरिति हेत्वन्तरमेव स्फुटयति -

उपक्रमेऽपीति ।

यत्तु भोगभूमित्वमर्चिरादीनामुक्तं तद्दूषयति -

सम्पिण्डितेति ।

लोकशब्दाद्भोगभूमित्वमुक्तं प्रत्याह -

लोकेति ।

गन्तॄणां भोक्तृत्वाभावेऽपि वाक्यं शक्यं नेतुमिति फलितमाह -

अत इति ॥ ५ ॥