ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ६ ॥
ततो विद्युदभिसम्भवनादूर्ध्वं विद्युदनन्तरवर्तिनैवामानवेन पुरुषेण वरुणलोकादिष्वतिवाह्यमाना ब्रह्मलोकं गच्छन्तीत्यवगन्तव्यम् , ‘तान्वैद्युतात्पुरुषोऽमानवः एत्य ब्रह्मलोकं गमयतिइति तस्यैव गमयितृत्वश्रुतेःवरुणादयस्तु तस्यैव अप्रतिबन्धकरणेन साहाय्यानुष्ठानेन वा केनचित् अनुग्राहका इत्यवगन्तव्यम्तस्मात्साधूक्तम्आतिवाहिका देवतात्मानोऽर्चिरादय इति ॥ ६ ॥

वरुणादिषु वचनादपवादमङ्गीकृत्य विभजते -

तत इति ।

किं तर्हि तैरित्याशङ्क्याह -

वरुणादयस्त्विति ।

तेषां स्वयमवाहकत्वेऽपि तत्साहाय्यकरणेन तथात्वाद्युक्तमर्चिरादिशब्दानां गमयितृविषयत्वमित्युपसंहरति -

तस्मादिति ॥ ६ ॥