ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
कार्यं बादरिरस्य गत्युपपत्तेः ॥ ७ ॥
एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इत्यत्र विचिकित्स्यतेकिं कार्यमपरं ब्रह्म गमयति, आहोस्वित्परमेवाविकृतं मुख्यं ब्रह्मेतिकुतः संशयः ? ब्रह्मशब्दप्रयोगात् , गतिश्रुतेश्चतत्र कार्यमेव सगुणमपरं ब्रह्म एनान्गमयत्यमानवः पुरुष इति बादरिराचार्यो मन्यतेकुतः ? अस्य गत्युपपत्तेःअस्य हि कार्यब्रह्मणो गन्तव्यत्वमुपपद्यते, प्रदेशवत्त्वात् तु परस्मिन्ब्रह्मणि गन्तृत्वं गन्तव्यत्वं गतिर्वा अवकल्पते, सर्वगतत्वात्प्रत्यगात्मत्वाच्च गन्तॄणाम् ॥ ७ ॥

गतिनिरूपणानन्तरं गन्तव्यं निरूपयति -

कार्यमिति ।

ब्रह्म विषयीकृत्य संशयमाह -

स इति ।

प्रश्नपूर्वकं तद्देतुमाह -

कुत इति ।

पूर्वपक्षस्याद्यो द्वितीयस्तूत्तरपक्षस्यानुगुणो हेतुः । प्रकृतया गत्या गन्तव्यस्य विद्याफलभूतस्य ब्रह्मणो निरूपणात्पादादिसङ्गतिः । पूर्वपक्षे परविदोऽपि गत्युत्क्रान्ती सिध्यतः ।

सिद्धान्ते ततोऽन्यस्यैव ते नियते स्यातामिति मन्वानः सूत्रं योजयन्नादौ सिद्धान्तमाह -

तत्रेति ।

साधारणे ब्रह्मशब्दे कार्यविषयत्वं गतेरहेतुकमिति शङ्कते -

कुत इति ।

हेतुमवतार्य व्याचष्टे -

गतिरिति ।

सर्वगतत्वेऽपि प्रदेशान्तरवर्तिनस्तस्याकाशस्येव गन्तव्यत्वमाशङ्क्याह -

प्रत्यगिति ॥ ७ ॥