ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
विशेषितत्वाच्च ॥ ८ ॥
ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति’ (बृ. उ. ६ । २ । १५) इति श्रुत्यन्तरे विशेषितत्वात् कार्यब्रह्मविषयैव गतिरिति गम्यते हि बहुवचनेन विशेषणं परस्मिन्ब्रह्मण्यवकल्पतेकार्ये तु अवस्थाभेदोपपत्तेः सम्भवति बहुवचनम्लोकश्रुतिरपि विकारगोचरायामेव सन्निवेशविशिष्टायां भोगभूमावाञ्जसीगौणी त्वन्यत्रब्रह्मैव लोक एष सम्राट्इत्यादिषुअधिकरणाधिकर्तव्यनिर्देशोऽपि परस्मिन्ब्रह्मणि अनाञ्जसः स्यात्तस्मात् कार्यविषयमेवेदं नयनम् ॥ ८ ॥

कार्यब्रह्म गन्तव्यमित्यत्र हेत्वन्तरमाह -

विशेषितेति ।

सूत्रं व्याचष्टे -

ब्रह्मेति ।

बहूक्त्या गन्तव्यस्य विशेषितत्वेऽपि कथं परस्य गन्तव्यत्वनिरसनं, तत्राह -

नहीति ।

ऐक्यात्कार्यस्यापि ब्रह्मणो बहूक्तिरयुक्तेत्याशङ्क्याह -

कार्ये त्विति ।

चशब्दसूचितं युक्त्यन्तरमाह -

लोकेति ।

परस्मिन्नपि क्वचिद्दृष्टा लोकश्रुतिरित्याशङ्क्याह -

गौणीति ।

ब्रह्मलोकेष्वित्यधिकरणसप्तम्या ब्रह्मण्ययोगादपि कार्यविषयैव गतिरिति हेत्वन्तरमाह -

अधिकरणेति ।

सूत्रोक्तहेतूनां फलितं गिगमयति -

तस्मादिति ॥ ८ ॥