ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ १० ॥
ननु कार्यप्राप्तौ अनावृत्तिश्रवणं न घटते । न हि परस्माद्ब्रह्मणोऽन्यत्र क्वचिन्नित्यतां सम्भावयन्ति । दर्शयति च देवयानेन पथा प्रस्थितानामनावृत्तिम् — ‘एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते’ (छा. उ. ४ । १५ । ५) इति, ‘तेषामिह न पुनरावृत्तिरस्ति — ‘तयोर्ध्वमायन्नमृतत्वमेति’ (छा. उ. ८ । ६ । ६)(क. उ. २ । ३ । १६) इति चेत्; अत्र ब्रूमः —

ब्रह्मशब्दस्य मुख्यार्थग्रहे बहुतरकार्यलिङ्गभङ्गवत्कार्यग्रहेऽपि तुल्यानावृत्तिश्रुत्यनुपपत्तिरिति शङ्कते -

नन्विति ।

तत्र हेतुः -

नहीति ।

मा भूदर्चिरादिना गच्छतामनावृत्तिर्ब्रह्मलोकप्राप्तिमात्रस्य श्रुतत्वादित्याशङ्क्याह -

दर्शयतीति ।

क्रममुक्त्यभिप्रायमनावृत्तिश्रवणमिति सूत्रेण प्रत्याह -

अत्रेति ।