दर्शनं विभजते -
तयेति ।
आपेक्षिकं तत्पक्षान्तरेऽपि स्यादित्याशङ्क्य मुख्यसम्भवे नैवमित्याह -
अमृतत्वं चेति ।
कार्यस्य नाशित्वे मानमाह -
अथेति ।
परस्मिन्न युक्ता गतिरित्युक्तमित्याशङ्क्याह -
परेति ।
कथमेतज्ज्ञातमित्याशङ्क्य प्रकरणसामर्थ्यादित्याह -
नहीति ॥ १३ ॥