ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
दर्शनाच्च ॥ १३ ॥
‘तयोर्ध्वमायन्नमृतत्वमेति’ (छा. उ. ८ । ६ । ६)(क. उ. २ । ३ । १६) इति च गतिपूर्वकममृतत्वं दर्शयति । अमृतत्वं च परस्मिन्ब्रह्मण्युपपद्यते, न कार्ये, विनाशित्वात्कार्यस्य — ‘अथ यत्रान्यत्पश्यति … तदल्पं … तन्मर्त्यम्’ (छा. उ. ७ । २४ । १) इति वचनात् । परविषयैव च एषा गतिः कठवल्लीषु पठ्यते; न हि तत्र विद्यान्तरप्रक्रमोऽस्ति — ‘अन्यत्र धर्मादन्यत्राधर्मात्’ (क. उ. १ । २ । १४) इति परस्यैव ब्रह्मणः प्रक्रान्तत्वात् ॥ १३ ॥

दर्शनं विभजते -

तयेति ।

आपेक्षिकं तत्पक्षान्तरेऽपि स्यादित्याशङ्क्य मुख्यसम्भवे नैवमित्याह -

अमृतत्वं चेति ।

कार्यस्य नाशित्वे मानमाह -

अथेति ।

परस्मिन्न युक्ता गतिरित्युक्तमित्याशङ्क्याह -

परेति ।

कथमेतज्ज्ञातमित्याशङ्क्य प्रकरणसामर्थ्यादित्याह -

नहीति ॥ १३ ॥