ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
अपि प्रजापतेः सभां वेश्म प्रपद्ये’ (छा. उ. ८ । १४ । १) इति नायं कार्यविषयः प्रतिपत्त्यभिसन्धिः, नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८ । १४ । १) इति कार्यविलक्षणस्य परस्यैव ब्रह्मणः प्रकृतत्वात्यशोऽहं भवामि ब्राह्मणानाम्’ (छा. उ. ८ । १४ । १) इति सर्वात्मत्वेनोपक्रमणात् तस्य प्रतिमाऽस्ति यस्य नाम महद्यशः’ (श्वे. उ. ४ । १९) इति परस्यैव ब्रह्मणो यशोनामत्वप्रसिद्धेःसा चेयं वेश्मप्रतिपत्तिर्गतिपूर्विका हार्दविद्यायामुदितातदपराजिता पूर्ब्रह्मणः प्रभुविमितꣳ हिरण्मयम्’ (छा. उ. ८ । ५ । ३) इत्यत्रपदेरपि गत्यर्थत्वात् मार्गापेक्षता अवसीयतेतस्मात्परब्रह्मविषया गतिश्रुतय इति पक्षान्तरम्तावेतौ द्वौ पक्षावाचार्येण सूत्रितौगत्युपपत्त्यादिभिरेकः, मुख्यत्वादिभिरपरःतत्र गत्युपपत्त्यादयः प्रभवन्ति मुख्यत्वादीनाभासयितुम् , तु मुख्यत्वादयो गत्युपपत्त्यादीन्इति आद्य एव सिद्धान्तो व्याख्यातः, द्वितीयस्तु पूर्वपक्षः ह्यसत्यपि सम्भवे मुख्यस्यैवार्थस्य ग्रहणमिति कश्चिदाज्ञापयिता विद्यतेपरविद्याप्रकरणेऽपि तत्स्तुत्यर्थं विद्यान्तराश्रयगत्यनुकीर्तनमुपपद्यतेविष्वङ्ङन्या उत्क्रमणे भवन्ति’ (छा. उ. ८ । ६ । ६) इतिवत्प्रजापतेः सभां वेश्म प्रपद्ये’ (छा. उ. ८ । १४ । १) इति तु पूर्ववाक्यविच्छेदेन कार्येऽपि प्रतिपत्त्यभिसन्धिर्न विरुध्यतेसगुणेऽपि ब्रह्मणि सर्वात्मत्वसङ्कीर्तनम्सर्वकर्मा सर्वकामःइत्यादिवत् अवकल्पतेतस्मादपरविषया एव गतिश्रुतयः

ब्रह्मश्रुतेरमृतत्वश्रुतिलिङ्गात्तयोर्ध्वमायन्नितिप्रकरणाच्च परविषया गतिरित्युक्तम् । सम्प्रति प्रजापतेः सभां वेश्म प्रपद्ये प्राप्नुयामिति मरणकाले यः प्रतिपत्त्यभिसन्धिः प्राप्तिसङ्कल्पः स कार्यगोचर इति तस्यैव गन्तव्यतेत्याशङ्क्याह -

नचेति ।

तद्विवृणोति -

अपिचेति ।

परस्यैव गन्तव्यत्वे हेत्वन्तरमाह -

यशोऽहमिति ।

आत्मा यशःशब्दार्थः । ब्राह्मणानामहमात्मा भवामि यशो राज्ञां यशो विशामिति सर्वात्मत्वोक्तेरपि न परिच्छिन्नकार्यापत्तिरित्यर्थः ।

यशःशब्देन विश्रुतत्वमुक्तं नात्मेत्याशङ्क्याह -

नेति ।

अस्त्वधिकाराद्ब्रह्मविषयैव वेश्मप्रतिपत्तयादिसंकल्पना तथापि कथं सा गतिपूर्विका वेश्मप्रतिपत्तेः स्तुतिमात्रत्वादित्याशङ्क्याह -

सा चेति ।

तत्तत्र ब्रह्मलोके केनापि ब्रह्मचर्यादिहीनेन न पराजितेत्यपराजिता पूरस्य ब्रह्मणो हिरण्यगर्भस्य तेनैव प्रभुणा निर्मितं हिरण्मयं वेश्म चास्ति तत्प्रपद्यते विद्वानिति दहरविद्यायां गतिपूर्विका वेश्मप्रतिपत्तिरुक्ता तेन परब्रह्मण्यपि वेश्मप्रतिपत्तिसाम्याद्गतिपूर्वकत्वं तस्याः सिध्यतीत्यर्थः ।

किञ्च पद गताविति स्मृतेरपि वेश्मप्रतिपत्तेर्मार्गापेक्षा भातीत्याह -

पदेरिति ।

पूर्वपक्षमुपसंहरति -

तस्मादिति ।

परं जैमिनिरित्यादिसिद्धान्तसूत्राण्युत्तरसूत्रत्वात्पूर्वाणि पूर्वपक्षसूत्राणीत्याशङ्क्य व्यवस्थार्थं पातनिकां करोति -

ताविति ।

तथापि कथं व्यवस्थेत्याशङ्क्याह -

तत्रेति ।

द्वितीये पक्षे ब्रह्मशब्दस्य मुख्यार्थलाभात्तस्यैवोत्तरपक्षत्वमित्याशङ्क्याह -

नहीति ।

यत्तु प्रकरणसामर्थ्यात्परविषयत्वं गतेरिति, तत्राह -

परेति ।

यथा ब्रह्मनाडीगतिप्रशंसार्थं नाड्यन्तराणि विद्यासंसर्गशून्यान्येव तत्प्रकरणेऽनुकीर्त्यन्ते तथा दहरादिविद्याश्रयगतिनिमित्तफलानुकीर्तनं परविद्याधिकारेऽपि युज्यते तस्या गतिराहित्येऽपि तत्पूर्वकफलस्य तयैव सिद्धेर्महतीयं विद्या निरतिशयैश्वर्यहेतुत्वादिति स्तुतिप्रकर्षसम्भवादित्यर्थः ।

यत्तु कार्ये प्रतिपत्त्यभिसन्धिर्नास्तीति, तत्राह -

प्रजेति ।

श्रुतिवाक्याभ्यां प्रकरणं हेयमिति भावः ।

यत्तु सर्वात्मत्वानुक्रमणात्परविषयत्वं प्रतिपत्त्यभिसन्धेरिति, तत्राह -

सगुणेऽपीति ।

प्रशंसार्थमुपास्त्यर्थं वा तदनुक्रमणमित्यर्थः ।

परविषयगत्ययोगे फलितमाह -

तस्मादिति ।