शेषशेषित्वे नियामकाभावमादाय शङ्कते -
कस्मादिति ।
नियामकं दर्शयति -
उच्यत इति ।
फलवत्तया नैराकाङ्क्ष्यं स्फोरयति -
नहीति ।
एकत्वज्ञाने सर्वाकाङ्क्षाशान्तिरित्यत्र श्रुतीराह -
तत्रेत्यादिना ।
श्रौते विद्याफले विद्वदनुभवमनुकूलयति -
तथैवेति ।
द्वैतस्य निन्द्यमानत्वादपि न प्रतिपाद्यतेत्याह -
विकारेति ।
विशेषनिषेधश्रुतीनां निराकाङ्क्षज्ञानोत्पादकत्वे फलितमाह -
अतो नेति ।
तुल्यमुत्पत्त्यादिश्रुतीनामपि तथाविधधीजनकत्वमित्याशङ्क्याह -
नैवमिति ।
न केवलं युक्तिमात्रेणोत्पत्त्यादिश्रुतीनामन्यार्थत्वं किन्तु श्रुतिसामर्थ्यादपीत्याह -
प्रत्यक्षं त्विति ।
तत्र छन्दोगश्रुत्या तासामन्यार्थत्वं स्फुटयति -
तथाहीति ।
तत्रेति मूलकारणोक्तिः । एतच्छुङ्गं जगदात्मकं कार्यमुत्पतितमुत्पन्नमिति यावत् । तेजसा सोम्यशुङ्गेन सन्मूलमन्विच्छेति सत एवोत्तरत्र कार्यलिङ्गेन ज्ञेयत्वोक्तेस्तत्तेजोऽसृजतेत्यादिश्रुतीनां तच्छेषत्वं सिद्धमित्यर्थः ।
तैत्तिरीयश्रुत्यापि जन्मादिश्रुतीनामैक्यधीशेषत्वमाह -
यत इति ।
तासामन्यपरत्वे फलितमाह -
एवमिति ।
ब्रह्मणोऽनेकशक्तिमत्त्वाभावेऽपि न परविषया गतिरित्यत्र किमायातं तदाह -
अतश्चेति ।
इतश्च परविषये न गतिरित्याह -
न तस्येति ।
न तस्मादिति माध्यन्दिनश्रुत्या निषेधश्रुतेरन्यार्थत्वमाशङ्क्योक्तं स्मारयति -
तदिति ।