गन्तव्यरूपालोचनया गतिरयुक्तेत्युक्तम् । अधुना गन्तृरूपालोचनयापि सा न युक्तेति वक्तुं विकल्पयति -
गतीति ।
अन्यानन्यत्वमाश्रित्याद्यौ विकल्पावत्यन्तभेदमाश्रित्यान्त्य इति भेदः ।
आत्यन्तिकमनन्यत्वं किमिति न विकल्प्यते, तत्राह -
अत्यन्तेति ।
कल्पत्रयेऽपि दोषजिज्ञासया पृच्छति -
यदीति ।
पक्षत्रयेऽपि दोषमाह -
उच्यत इति ।
आद्यमनूद्य प्रत्याह -
यदीति ।
प्रथमपक्षस्योत्थानमेव नास्तीत्याह -
एकदेेशेति ।
उक्तदोषसाम्याद्द्वितयं निराह -
विकारेति ।
नित्यप्राप्तत्वं दृष्टान्तेन स्पष्टयति -
नहीति ।
विपक्षे दोषमाह -
परित्यागे वेति ।
पक्षद्वयेऽपि दोषान्तरमाह -
विकारेति ।
ब्रह्म सविकारं सावयवं चेष्टं तस्य सह विकारैरवयवैश्च निश्चलत्वात्कुतो जीवानां संसारगमनरूपं चलनं न हि स्थिरात्मनामस्थिरत्वं युक्तमन्यानन्यत्वं च विरुद्धत्वान्नोपगन्तुं शक्यमित्यर्थः ।
तृतीयमनुवदति -
अथेति ।
तं त्रेधा विकल्प्य दूषयति -
सोऽणुरित्यादिना ।
अनित्यत्वप्रसङ्गो घटादिषु तथादृष्टेरिति शेषः ।
पक्षद्वयानुपपत्तिं तर्कपादे वियत्पादे चोक्तां स्मारयति -
प्रतिषिद्धे चेति ।
अन्यत्वपक्षे श्रुतिविरोधं दोषान्तरमाह -
परस्माच्चेति ।
पूर्वोक्तेऽपि पक्षद्वये श्रुतिविरोधस्य तुल्यत्वमाह -
विकारेति ।
तयोस्तद्वतोऽन्यत्ववदनन्यत्वस्यापि भावान्नेति शङ्कते -
विकारेति ।
भेदाभेदायोर्विरोधिनोरेकत्रायोगाद्बुद्धिव्यपदेशभेदाद्विकारावयवयोस्तद्वतो भेदे सत्ययुतसिद्धत्वादुपचारेणाभेदोक्तिरित्यमुख्यं जीवस्य ब्रह्मैक्यं स्यादित्याह -
नेति ।
किञ्च पक्षत्रयेऽपि संसारित्वस्य तात्त्विकत्वात्तस्यात्यन्तिकनाशे जीवरूपनाशादयुक्तं पक्षत्रयमपीत्याह -
सर्वेष्विति ।
संसारित्वे निवृत्तेऽपि सिद्धान्तवन्न जीवरूपनाशप्रसक्तिरित्याशङ्क्याह -
ब्रह्मेति ।