ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यतेइति श्रूयतेतत्र संशयःकिं देवलोकाद्युपभोगस्थानेष्विव आगन्तुकेन केनचिद्विशेषेण अभिनिष्पद्यते, आहोस्वित् आत्ममात्रेणेतिकिं तावत्प्राप्तम् ? स्थानान्तरेष्विव आगन्तुकेन केनचिद्रूपेण अभिनिष्पत्तिः स्यात् , मोक्षस्यापि फलत्वप्रसिद्धेः, अभिनिष्पद्यत इति उत्पत्तिपर्यायत्वात्स्वरूपमात्रेण चेदभिनिष्पत्तिः, पूर्वास्वप्यवस्थासु स्वरूपानपायात् विभाव्येततस्मात् विशेषेण केनचिदभिनिष्पद्यत इतिएवं प्राप्ते, ब्रूमः

आद्ये पादे निर्गुणविद्याफलैकदेशो बन्धनिवृत्तिरुक्ता । द्वितीये सगुणनिर्गुणफलाप्तिशेषत्वेन तद्विदोरुत्क्रान्त्यनुत्क्रान्ती चिन्तिते । तृतीये सगुणविद्याफलोपयोगितया गतिगन्तव्यगन्तृविशेषा निरूपिताः । सम्प्रति चतुर्थे पादे परविद्याफलैकदेशो ब्रह्मभावाद्द्विर्भावः सगुणविद्याफलं च सर्वेश्वरतुल्यभोगत्वमवधारयिष्यते । तत्रापरविद्याप्राप्यमुक्त्वा परविद्याप्राप्यमाह -

सम्पद्येति ।

निर्गुणविद्याफलमुदाहर्तुं तद्विषयवाक्यमुदाहरति -

एवमेवेति ।

स्वशब्दस्य स्वकीयवाचित्वेनागन्तुकत्वाभानात्स्वरूपवचनत्वेनानागन्तुकत्वबुद्धेश्च संशयमाह -

तत्रेति ।

अत्र च निर्गुणब्रह्मविद्याफलस्य ब्रह्मभावाविर्भावस्य नित्यसिद्धत्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे मोक्षस्य स्वर्गादेरविशेषः ।

सिद्धान्ते तस्य ततो विशेषोऽस्तीति गृहीत्वा विमृश्य पूर्वपक्षमाह -

किमिति ।

विमतमागन्तुकं फलत्वात्स्वर्गवदिति मत्वा हेतुमाह -

मोक्षस्येति ।

अभिनिष्पत्तिशब्दादपि प्रगभूतस्य निष्पत्तिः सिध्यतीति हेत्वन्तरमाह -

अभिनिष्पद्यत इति ।

सिद्धान्तेऽपि स्यादभिनिष्पत्तिरौपचारिकीत्याशङ्क्याह -

स्वरूपेति ।

उक्तानुमानादभिनिष्पत्तिशब्दाच्च सिद्धमर्थ निगमयति -

तस्मादिति ।

मुक्तेरागन्तुकत्वमनूद्य सिद्धान्तयति -

एवमिति ।