आद्ये पादे निर्गुणविद्याफलैकदेशो बन्धनिवृत्तिरुक्ता । द्वितीये सगुणनिर्गुणफलाप्तिशेषत्वेन तद्विदोरुत्क्रान्त्यनुत्क्रान्ती चिन्तिते । तृतीये सगुणविद्याफलोपयोगितया गतिगन्तव्यगन्तृविशेषा निरूपिताः । सम्प्रति चतुर्थे पादे परविद्याफलैकदेशो ब्रह्मभावाद्द्विर्भावः सगुणविद्याफलं च सर्वेश्वरतुल्यभोगत्वमवधारयिष्यते । तत्रापरविद्याप्राप्यमुक्त्वा परविद्याप्राप्यमाह -
सम्पद्येति ।
निर्गुणविद्याफलमुदाहर्तुं तद्विषयवाक्यमुदाहरति -
एवमेवेति ।
स्वशब्दस्य स्वकीयवाचित्वेनागन्तुकत्वाभानात्स्वरूपवचनत्वेनानागन्तुकत्वबुद्धेश्च संशयमाह -
तत्रेति ।
अत्र च निर्गुणब्रह्मविद्याफलस्य ब्रह्मभावाविर्भावस्य नित्यसिद्धत्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे मोक्षस्य स्वर्गादेरविशेषः ।
सिद्धान्ते तस्य ततो विशेषोऽस्तीति गृहीत्वा विमृश्य पूर्वपक्षमाह -
किमिति ।
विमतमागन्तुकं फलत्वात्स्वर्गवदिति मत्वा हेतुमाह -
मोक्षस्येति ।
अभिनिष्पत्तिशब्दादपि प्रगभूतस्य निष्पत्तिः सिध्यतीति हेत्वन्तरमाह -
अभिनिष्पद्यत इति ।
सिद्धान्तेऽपि स्यादभिनिष्पत्तिरौपचारिकीत्याशङ्क्याह -
स्वरूपेति ।
उक्तानुमानादभिनिष्पत्तिशब्दाच्च सिद्धमर्थ निगमयति -
तस्मादिति ।
मुक्तेरागन्तुकत्वमनूद्य सिद्धान्तयति -
एवमिति ।