ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
सम्पद्याविर्भावः स्वेनशब्दात् ॥ १ ॥
केवलेनैव आत्मना आविर्भवति, धर्मान्तरेणेतिकुतः ? ‘स्वेन रूपेणाभिनिष्पद्यतेइति स्वशब्दात्अन्यथा हि स्वशब्देन विशेषणमनवकॢप्तं स्यात्ननु, आत्मीयाभिप्रायः स्वशब्दो भविष्यति, तस्यावचनीयत्वात्येनैव हि केनचिद्रूपेणाभिनिष्पद्यते, तस्यैव आत्मीयत्वोपपत्तेः, स्वेनेति विशेषणमनर्थकं स्यात्आत्मवचनतायां तु अर्थवत्केवलेनैव आत्मरूपेणाभिनिष्पद्यते, आगन्तुकेनापररूपेणापीति ॥ १ ॥

उक्तेऽनुमाने जीवति कथमनागन्तुकत्वं मुक्तेरित्याह -

कुत इति ।

विशेषणश्रुतिबाध्यमनुमानमित्याह -

स्वेनेति ।

परं ब्रह्म ज्योतिःशब्दितमुपसम्पद्य साक्षादनुभूय तेनैव स्वेन रूपेणाविर्भावोऽवस्थानमित्यनङ्गीकुर्वन्तं प्रत्याह -

अन्यथेति ।

विधान्तरेण स्वशब्दस्यार्थवत्त्वं शङ्कते -

नन्विति ।

अज्ञातज्ञापकत्वे सम्भवत्यनुवादकत्वायोगान्नैवमित्याह -

न तस्येति ।

तदेवावचनीयत्वं साधयति -

येनेति ।

परपक्षे विशेषणानर्थक्यमुक्त्वा स्वपक्षे तदर्थवत्वमाह -

आत्मेति ।

अर्थवत्त्वं स्फुटयति -

केवलेनेति ॥ १ ॥