विदुषः स्वरूपेऽवस्थितस्यापि वैशेषिकादिवद्ब्रह्मणोऽन्यत्वमाशङ्क्याह -
अविभागेनेति ।
विषयोक्तिपूर्वकं वादिविप्रतिपत्तेः संशयमाह -
परमिति ।
अत्र मुक्तस्य ब्रह्मणोऽत्यन्ताभेदवादात्पादादिसङ्गतिः ।
पूर्वपक्षे जीवेश्वरयोरात्यन्तिकमन्यत्वं, सिद्धान्ते तयोरात्यन्तिकमभिन्नत्वमङ्गीकृत्य पूर्वपक्षयति -
इति वीक्षायामिति ।
सिद्धान्तसूत्रमवतार्य व्याचष्टे -
इति यस्येति ।
दृष्टत्वमेव स्फुटयति -
तथाहीति ।
परमात्मन्यैक्येन दृष्टत्वे फलितमाह -
यथेति ।
फलावस्थावादिवाक्येष्वविभागस्य दृष्टत्वादपि मुक्तस्य परस्मादात्यन्तिकमैक्यमिति व्याख्यान्तरमाह -
यथेति ।
उक्तभेदनिर्देशस्य तर्हि का गतिः, तत्राह -
भेदेति ।
उपचारो गतिरित्यत्र तथान्यत्र दृष्टत्वं हेतुमाह -
स इति ॥ ४ ॥