ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अविभागेन दृष्टत्वात् ॥ ४ ॥
परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते यः, किं परस्मादात्मनः पृथगेव भवति, उत अविभागेनैवावतिष्ठत इति वीक्षायाम् , तत्र पर्येति’ (छा. उ. ८ । १२ । ३) इत्यधिकरणाधिकर्तव्यनिर्देशात् ज्योतिरुपसम्पद्य’ (छा. उ. ८ । १२ । ३) इति कर्तृकर्मनिर्देशात् भेदेनैवावस्थानमिति यस्य मतिः, तं व्युत्पादयतिअविभक्त एव परेण आत्मना मुक्तोऽवतिष्ठतेकुतः ? दृष्टत्वात्; तथा हितत्त्वमसि’ (छा. उ. ६ । ८ । ७) अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) यत्र नान्यत्पश्यति’ (छा. उ. ७ । २४ । १) तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’ (बृ. उ. ४ । ३ । २३) इत्येवमादीनि वाक्यान्यविभागेनैव परमात्मानं दर्शयन्तियथादर्शनमेव फलं युक्तम् , तत्क्रतुन्यायात्यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवतिएवं मुनेर्विजानत आत्मा भवति गौतम’ (क. उ. २ । १ । १५) इति एवमादीनि मुक्तस्वरूपनिरूपणपराणि वाक्यान्यविभागमेव दर्शयन्तिनदीसमुद्रादिनिदर्शनानि भेदनिर्देशस्तु अभेदेऽप्युपचर्यते भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि’ (छा. उ. ७ । २४ । १) इति, आत्मरतिरात्मक्रीडः’ (छा. उ. ७ । २५ । २) इति एवमादिदर्शनात् ॥ ४ ॥

विदुषः स्वरूपेऽवस्थितस्यापि वैशेषिकादिवद्ब्रह्मणोऽन्यत्वमाशङ्क्याह -

अविभागेनेति ।

विषयोक्तिपूर्वकं वादिविप्रतिपत्तेः संशयमाह -

परमिति ।

अत्र मुक्तस्य ब्रह्मणोऽत्यन्ताभेदवादात्पादादिसङ्गतिः ।

पूर्वपक्षे जीवेश्वरयोरात्यन्तिकमन्यत्वं, सिद्धान्ते तयोरात्यन्तिकमभिन्नत्वमङ्गीकृत्य पूर्वपक्षयति -

इति वीक्षायामिति ।

सिद्धान्तसूत्रमवतार्य व्याचष्टे -

इति यस्येति ।

दृष्टत्वमेव स्फुटयति -

तथाहीति ।

परमात्मन्यैक्येन दृष्टत्वे फलितमाह -

यथेति ।

फलावस्थावादिवाक्येष्वविभागस्य दृष्टत्वादपि मुक्तस्य परस्मादात्यन्तिकमैक्यमिति व्याख्यान्तरमाह -

यथेति ।

उक्तभेदनिर्देशस्य तर्हि का गतिः, तत्राह -

भेदेति ।

उपचारो गतिरित्यत्र तथान्यत्र दृष्टत्वं हेतुमाह -

स इति ॥ ४ ॥