पूर्वपक्षान्तरमाह -
चितितन्मात्रेणेति ।
उपन्यासादिना नानारसत्वे दर्शिते कथञ्चिदेकरसत्वमित्याशङ्क्याह -
यद्यपीति ।
कथं विकल्पमात्रत्वमित्याशङ्क्य काल्पनिकत्वात्पाप्मादेस्तन्निवृत्तिरूपाणां तेषामपि राहोः शिर इतिवत्काल्पनिकत्वमेवेत्याह -
पाप्मादीति ।
किं तर्हि तस्य वास्तवरूपं तदाह -
चैतन्यमिति ।
तत्र मानमाह -
तथाचेति ।
सत्यकामत्वादीनामपहतपाप्मत्वादिवन्नेतुमशक्यत्वात्कुतो ब्रह्मणश्चैतन्यमात्रतेत्याशङ्क्याह -
सत्येति ।
उपाधीनामपि तदभेदाद्वास्तवमेव धर्मत्वमित्याशङ्क्याह -
अनेकेति ।
उपन्यासस्येव विधिव्यपदेशयोर्गतिमाह -
अत इति ।
अनेकाकारत्वस्य निषिद्धत्वादेवेति यावत् ।
दृष्टान्तेऽपि मुख्यत्वमाशङ्क्योक्तम् -
नहीति ।
उपन्यासादीनामन्यथासिद्धत्वे श्रुतिसिद्धमर्थमुपसंहरति -
तस्मादिति ॥ ६ ॥