ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॥ ७ ॥
एवमपि पारमार्थिकचैतन्यमात्रस्वरूपाभ्युपगमेऽपि व्यवहारापेक्षया पूर्वस्यापि उपन्यासादिभ्योऽवगतस्य ब्राह्मस्य ऐश्वर्यरूपस्य अप्रत्याख्यानादविरोधं बादरायण आचार्यो मन्यते ॥ ७ ॥

सिद्धान्तयति -

एवमपीति ।

चिन्मात्रस्यापि सतो ब्रह्मणस्तत्त्वातत्त्वविभागाद्विधात्वसिद्धिरिति सूत्रार्थं विवृणोति -

एवमित्यादिना ॥ ७ ॥