ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥
जैमिनिस्त्वाचार्यः मनोवत् शरीरस्यापि सेन्द्रियस्य भावं मुक्तं प्रति मन्यते; यतः एकधा भवति त्रिधा भवति’ (छा. उ. ७ । २६ । २) इत्यादिना अनेकधाभावविकल्पमामनन्ति हि अनेकविधता विना शरीरभेदेन आञ्जसी स्यात्यद्यपि निर्गुणायां भूमविद्यायाम् अयमनेकधाभावविकल्पः पठ्यते, तथापि विद्यमानमेवेदं सगुणावस्थायाम् ऐश्वर्यं भूमविद्यास्तुतये सङ्कीर्त्यत इत्यतः सगुणविद्याफलभावेन उपतिष्ठत इत्युच्यते ॥ ११ ॥

पू्र्वपक्षान्तरमाह -

भावमिति ।

सूत्राक्षराणि योजयति -

जैमिनिस्त्विति ।

विकल्पामननं मनोभेदादेव किं न स्यादित्याशङ्क्याह -

नहीति ।

देहभेदाभावे मनोभेदस्यापि दुर्भणत्वान्न तद्भेदकृतं विकल्पामननमित्यर्थः । निर्गुणविद्याधिकारे पाठाद्विकल्पामननं स्तुतिरेवेत्याशङ्क्याह -

यद्यपीति ।

देहे प्रियादिभोगहीने निर्गुणज्ञाने स्तुतित्वेनानेकधात्वस्यान्वयेऽपि विशिष्टभोगसंसर्गयोग्ये दहराद्युपासने फलत्वेनान्वय इत्यर्थः । नच मनसेति विशेषणमन्ययोगव्यावर्तकं देहादि व्यवच्छिनत्तीति युक्तं चैत्रो धनुर्धर इतिवदयोगव्यवच्छेदेनापि तद्योगादिति भावः ॥ ११ ॥