ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
द्वादशाहवदुभयविधं बादरायणोऽतः ॥ १२ ॥
बादरायणः पुनराचार्यः अत एव उभयलिङ्गश्रुतिदर्शनात् उभयविधत्वं साधु मन्यतेयदा सशरीरतां सङ्कल्पयति तदा सशरीरो भवति, यदा तु अशरीरतां तदा अशरीर इति; सत्यसङ्कल्पत्वात् , सङ्कल्पवैचित्र्याच्चद्वादशाहवत्यथा द्वादशाहः सत्रम् अहीनश्च भवति, उभयलिङ्गश्रुतिदर्शनात्एवमिदमपीति ॥ १२ ॥

सिद्धान्तयति -

उच्यत इति ।

सूत्रं व्याचष्टे -

बादरायण इति ।

मनसेतिविशेषणसामर्थ्यादेकधा भवति त्रिधा भवतीत्यादिविकल्पामननसामर्थ्याच्चेत्यतः शब्दार्थं स्फुटयति -

उभयेति ।

सशरीरत्वमशरीरत्वं चैकस्यैव विरुद्धमित्याशङ्क्य कालभेदादविरोधं दर्शयति -

यदा त्विति ।

इतिशब्दस्योभयविधत्वमिति पूर्वेण सम्बन्धः ।

विदुषः सङ्कल्पानुसारि कार्यमित्यत्र हेतुमाह -

सत्येति ।

कार्यवैचित्र्ये हेतुः -

सङ्कल्पेति ।

धनुर्धरत्वादि हि विशेषणं पाक्षिकप्राप्तविशेषपदयोगव्यवच्छेदकं युक्तं नहि चैत्रो धनुर्दधान एवावतिष्ठते । प्रकृते तु मनसैतानित्यादौ कामभोगेषु मनसो नित्यप्राप्तत्वात्तदनुवादेनान्ययोगनिवृत्त्यर्थतेत्याशङ्क्य दृष्टान्तमवतार्य व्याचष्टे -

द्वादशाहवदिति ।

तस्य बहुकर्तृकतया सत्रत्वे नियतकर्तृकतयाऽहीनत्वे च हेतुमाह -

उभयेति ।

द्वादशाहो हि यजमानबहुत्वादासनोपायनोपदेशाच्च सत्रं य एवंविद्वांसः सत्रमुपयन्तीत्युपायनचोदनादर्शनात्सप्तदशावराश्चतुर्विंशतिपरमाः सत्रमासीरन्नित्यासनचोदनायाश्च द्वादशाहाधिकारे दृष्टत्वादासनोपायनचोदनयोरन्यतरत्वस्य सत्रलक्षणत्वाद्द्वादशाहेन प्रजाकामं याजयेदिति यजतिचोदनादर्शनान्नियतकर्तृकत्वावगमाच्च द्विरात्रवदहीनत्वं चास्य गम्यते । तथेदमपि विदुषः सशरीरत्वमशरीरत्वं च द्विविधश्रुतिसिद्धं विचित्रसङ्कल्पनिबन्धनमविरुद्धमित्यर्थः ॥ १२ ॥