ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
तन्वभावे सन्ध्यवदुपपत्तेः ॥ १३ ॥
यदा तनोः सेन्द्रियस्य शरीरस्य अभावः तदा, यथा सन्ध्ये स्थाने शरीरेन्द्रियविषयेष्वविद्यमानेष्वपि उपलब्धिमात्रा एव पित्रादिकामा भवन्ति, एवं मोक्षेऽपि स्युःएवं हि एतदुपपद्यते ॥ १३ ॥

विदुषो देहाद्यसत्त्वमयुक्तं भोगाभावप्रसङ्गादित्याशङ्क्याह -

तन्वभाव इति ।

स्वप्ने देहाभावेऽपि तत्र संनिकर्षस्य ज्ञानहेतुता मनः - स्थितिमात्रहेतुत्वेनान्यथासिद्धत्वाद्योगिनश्च विद्यासामर्थ्यादेव मनोवस्थानादिति मत्वाह -

सन्ध्यवदिति ।

सूत्राक्षराणि व्याकरोति -

यदेत्यादिना ।

विदुषो देहादेरभावे मनसेतिविशेषणोपपत्तिं हेतूकरोति -

एवं हीति ॥ १३ ॥