ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
भावे जाग्रद्वत् ॥ १४ ॥
भावे पुनः तनोः, यथा जागरिते विद्यमाना एव पित्रादिकामा भवन्ति, एवं मुक्तस्याप्युपपद्यते ॥ १४ ॥

तर्हि देहाद्युपादानमनर्थकं, तत्राह -

भाव इति ।

पुष्कलभोगसिद्ध्यर्थं देहाद्यादानमिति मन्वानः सूत्रं योजयति -

भावे पुनरिति ॥ १४ ॥