सङ्कल्पाधीनमनेकदेहनिर्माणमफलं निरात्मकेषु देहभेदेषु भोगायोगादित्याशङ्क्याह -
प्रदीपवदिति ।
वृत्तानुवादपूर्वकं मुक्तस्योक्तानि साङ्कल्पिकानि शरीराणि विषयीकृत्योभयथोपलब्धेः सन्देहमाह -
भावमिति ।
तत्रेति मुक्तोक्तिः । मुक्तस्यापरविद्याफलभूतस्य साङ्कल्पिकेषु प्रवेशप्रकारोक्त्या पादादिसङ्गतिः । पूर्वपक्षे भोक्तुरेकत्वादेकत्रैव भोगसिद्धिः ।
सिद्धान्ते भोक्तुरैक्येऽपि स्वेच्छया तस्यानेकत्र भोगोपपत्तिरिति मत्वा पूर्वपक्षयति -
तत्रेति ।
आत्मनो विभुत्वेऽपि मनस्येव चैतन्यव्यक्तेस्तदवच्छेदकैकदेहावस्थितस्य देहान्तरावेशायोगादन्तःकरणान्तरोपादानेऽपि तस्यानाद्यन्तःकरणाद्यवच्छिन्नस्य पुनरागन्तुकान्तःकरणावच्छेदासम्भवात्सम्भवे च जीवभेदाद्भोगाननुसन्धानप्रसङ्गादेकस्मादितराणि निरात्मकानीति प्राप्तमित्यर्थः ।
पूर्वपक्षमनूद्य सिद्धान्तसूत्रमवतारयति -
एवमिति ।
तत्र दृष्टान्तं व्याचष्टे -
यथेति ।
दीपादीनां भिन्नत्वेऽपि दीपत्वस्यैकत्वमेकवर्तिवर्तिदीपेषूपचर्य भिन्नवर्तिवर्तिनां दीपानां भिन्नतेति दृष्टान्तमुक्तवा दार्ष्टान्तिकमावेशशब्दितं दर्शयति -
एवमिति ।
तत्र हेतुत्वेनावशिष्टं सूत्रावयवं व्याचष्टे -
तथाहीति ।
यथा दारुयन्त्रं चैतन्यशून्यमपि चेतनेच्छामनुरुध्यते तथा निर्माणशरीराणि सेन्द्रियाणीति कस्मान्नाभ्युपगम्यते तेन निरात्मकत्वमेव शरीरान्तराणामित्याशङ्क्याह -
नैतदिति ।
यन्त्रवाहकस्य हि यन्त्राणि भिन्नानि निर्माय वाहयतोऽपि नानात्वेन व्यपदेशाभावाद्विदुषश्च तथा व्यपदेशात्तत्तद्देहोपाध्यवच्छेदो भातीत्यर्थः ।
तर्हि निर्माणदेहेष्वात्मान्तराणि सृजति विद्वानित्याशङ्क्याह -
नापीति ।
जीवान्तरावेशेऽपि नैतदवकल्पत इति सम्बन्धः । एकस्यानेकधाभावश्रुतिविरोधादननुसन्धानप्रसङ्गाच्चेत्यर्थः ।
शरीरान्तराणां निरात्मकत्वाभावे हेत्वन्तरमाह -
नचेति ।
आत्मानधिष्ठितानामचेतनानां प्रवृत्त्ययोगाद्भोगाभावप्रसङ्गाच्च शरीरान्तरेषु न निरात्मकत्वमित्यर्थः ।
पूर्वपक्षबीजमनुभाषते -
यत्त्विति ।
स्वतन्त्रानादिमनोभेदे सत्येव जीवभेदादेकमनःसङ्कल्पसमुत्थानात्तदायत्तानां मनसां भेदेऽपि जीवभेदाभावात्तत्तदुपाधिव्यक्तचैतन्यो विद्वानैश्वर्यभागित्युपगमे न किञ्चिदवद्यमिति परिहरति -
नेत्यादिना ।
एकमनोनुवर्तनमेकाभिप्रायाविरोधित्वम् । उक्तेऽर्थे योगशास्त्रसंमतिमाह -
एषैवेति ।
निर्माणचित्तान्यस्मितामात्रं प्रवृत्तिभेदप्रयोजकं चित्तमेकमनेकेषामित्यादिनैषैव प्रक्रियोक्तेत्यर्थः ॥ १५ ॥