ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
प्रदीपवदावेशस्तथा हि दर्शयति ॥ १५ ॥
भावं जैमिनिर्विकल्पामननात्’ (ब्र. सू. ४ । ४ । ११) इत्यत्र सशरीरत्वं मुक्तस्योक्तम्तत्र त्रिधाभावादिषु अनेकशरीरसर्गे किं निरात्मकानि शरीराणि दारुयन्त्रवत्सृज्यन्ते, किं वा सात्मकान्यस्मदादिशरीरवत्इति भवति वीक्षातत्र आत्ममनसोः भेदानुपपत्तेः एकेन शरीरेण योगात् इतराणि शरीराणि निरात्मकानिइत्येवं प्राप्ते, प्रतिपद्यतेप्रदीपवदावेश इतियथा प्रदीप एकः अनेकप्रदीपभावमापद्यते, विकारशक्तियोगात् , एवमेकोऽपि सन् विद्वान् ऐश्वर्ययोगादनेकभावमापद्य सर्वाणि शरीराण्याविशतिकुतः ? तथा हि दर्शयति शास्त्रमेकस्यानेकभावम् एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा’ (छा. उ. ७ । २६ । २) इत्यादिनैतद्दारुयन्त्रोपमाभ्युपगमेऽवकल्पते, नापि जीवान्तरावेशे निरात्मकानां शरीराणां प्रवृत्तिः सम्भवतियत्तु आत्ममनसोर्भेदानुपपत्तेः अनेकशरीरयोगासम्भव इतिनैष दोषः; एकमनोनुवर्तीनि समनस्कान्येवापराणि शरीराणि सत्यसङ्कल्पत्वात् स्रक्ष्यतिसृष्टेषु तेषु उपाधिभेदात् आत्मनोऽपि भेदेनाधिष्ठातृत्वं योक्ष्यतेएषैव योगशास्त्रेषु योगिनामनेकशरीरयोगप्रक्रिया ॥ १५ ॥

सङ्कल्पाधीनमनेकदेहनिर्माणमफलं निरात्मकेषु देहभेदेषु भोगायोगादित्याशङ्क्याह -

प्रदीपवदिति ।

वृत्तानुवादपूर्वकं मुक्तस्योक्तानि साङ्कल्पिकानि शरीराणि विषयीकृत्योभयथोपलब्धेः सन्देहमाह -

भावमिति ।

तत्रेति मुक्तोक्तिः । मुक्तस्यापरविद्याफलभूतस्य साङ्कल्पिकेषु प्रवेशप्रकारोक्त्या पादादिसङ्गतिः । पूर्वपक्षे भोक्तुरेकत्वादेकत्रैव भोगसिद्धिः ।

सिद्धान्ते भोक्तुरैक्येऽपि स्वेच्छया तस्यानेकत्र भोगोपपत्तिरिति मत्वा पूर्वपक्षयति -

तत्रेति ।

आत्मनो विभुत्वेऽपि मनस्येव चैतन्यव्यक्तेस्तदवच्छेदकैकदेहावस्थितस्य देहान्तरावेशायोगादन्तःकरणान्तरोपादानेऽपि तस्यानाद्यन्तःकरणाद्यवच्छिन्नस्य पुनरागन्तुकान्तःकरणावच्छेदासम्भवात्सम्भवे च जीवभेदाद्भोगाननुसन्धानप्रसङ्गादेकस्मादितराणि निरात्मकानीति प्राप्तमित्यर्थः ।

पूर्वपक्षमनूद्य सिद्धान्तसूत्रमवतारयति -

एवमिति ।

तत्र दृष्टान्तं व्याचष्टे -

यथेति ।

दीपादीनां भिन्नत्वेऽपि दीपत्वस्यैकत्वमेकवर्तिवर्तिदीपेषूपचर्य भिन्नवर्तिवर्तिनां दीपानां भिन्नतेति दृष्टान्तमुक्तवा दार्ष्टान्तिकमावेशशब्दितं दर्शयति -

एवमिति ।

तत्र हेतुत्वेनावशिष्टं सूत्रावयवं व्याचष्टे -

तथाहीति ।

यथा दारुयन्त्रं चैतन्यशून्यमपि चेतनेच्छामनुरुध्यते तथा निर्माणशरीराणि सेन्द्रियाणीति कस्मान्नाभ्युपगम्यते तेन निरात्मकत्वमेव शरीरान्तराणामित्याशङ्क्याह -

नैतदिति ।

यन्त्रवाहकस्य हि यन्त्राणि भिन्नानि निर्माय वाहयतोऽपि नानात्वेन व्यपदेशाभावाद्विदुषश्च तथा व्यपदेशात्तत्तद्देहोपाध्यवच्छेदो भातीत्यर्थः ।

तर्हि निर्माणदेहेष्वात्मान्तराणि सृजति विद्वानित्याशङ्क्याह -

नापीति ।

जीवान्तरावेशेऽपि नैतदवकल्पत इति सम्बन्धः । एकस्यानेकधाभावश्रुतिविरोधादननुसन्धानप्रसङ्गाच्चेत्यर्थः ।

शरीरान्तराणां निरात्मकत्वाभावे हेत्वन्तरमाह -

नचेति ।

आत्मानधिष्ठितानामचेतनानां प्रवृत्त्ययोगाद्भोगाभावप्रसङ्गाच्च शरीरान्तरेषु न निरात्मकत्वमित्यर्थः ।

पूर्वपक्षबीजमनुभाषते -

यत्त्विति ।

स्वतन्त्रानादिमनोभेदे सत्येव जीवभेदादेकमनःसङ्कल्पसमुत्थानात्तदायत्तानां मनसां भेदेऽपि जीवभेदाभावात्तत्तदुपाधिव्यक्तचैतन्यो विद्वानैश्वर्यभागित्युपगमे न किञ्चिदवद्यमिति परिहरति -

नेत्यादिना ।

एकमनोनुवर्तनमेकाभिप्रायाविरोधित्वम् । उक्तेऽर्थे योगशास्त्रसंमतिमाह -

एषैवेति ।

निर्माणचित्तान्यस्मितामात्रं प्रवृत्तिभेदप्रयोजकं चित्तमेकमनेकेषामित्यादिनैषैव प्रक्रियोक्तेत्यर्थः ॥ १५ ॥