ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
कथं पुनः मुक्तस्य अनेकशरीरावेशादिलक्षणमैश्वर्यमभ्युपगम्यते, यावता तत्केन कं विजानीयात्’ (बृ. उ. ४ । ५ । १५) तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात्’ (बृ. उ. ४ । ३ । ३०) सलिल एको द्रष्टाऽद्वैतो भवति’ (बृ. उ. ४ । ३ । ३२) इति एवंजातीयका श्रुतिः विशेषविज्ञानं वारयतिइत्यत उत्तरं पठति

मुक्तस्य यथोक्तमैश्वर्यं विशेषज्ञाननिषेधकश्रुतिविरुद्धमिति शङ्कते -

कथमिति ।