स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ १६ ॥
कथं पुनः मुक्तस्य अनेकशरीरावेशादिलक्षणमैश्वर्यमभ्युपगम्यते, यावता ‘तत्केन कं विजानीयात्’ (बृ. उ. ४ । ५ । १५) ‘न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात्’ (बृ. उ. ४ । ३ । ३०) ‘सलिल एको द्रष्टाऽद्वैतो भवति’ (बृ. उ. ४ । ३ । ३२) इति च एवंजातीयका श्रुतिः विशेषविज्ञानं वारयति — इत्यत उत्तरं पठति —