ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
भोगमात्रसाम्यलिङ्गाच्च ॥ २१ ॥
इतश्च निरङ्कुशं विकारालम्बनानामैश्वर्यम् , यस्मात् भोगमात्रमेव एषाम् अनादिसिद्धेनेश्वरेण समानमिति श्रूयते — ‘तमाहापो वै खलु मीयन्ते लोकोऽसौइति यथैतां देवताꣳ सर्वाणि भूतान्यवन्त्येवꣳ हैवंविदꣳ सर्वाणि भूतान्यवन्तितेनो एतस्यै देवतायै सायुज्यꣳ सलोकतां जयति’ (बृ. उ. १ । ५ । २३) इत्यादिभेदव्यपदेशलिङ्गेभ्यः ॥ २१ ॥

अपरब्रह्मविदां विश्वस्रष्टृत्वाद्यभावे हेत्वन्तरमाह -

भोगमात्रेति ।

न केवलं स्वाराज्यस्य परमेश्वरायत्ततया विदुषां जगद्व्यापारराहित्यं किन्तु तेन भोगमात्रेण साम्योक्तिलिङ्गादपीत्यर्थः ।

चकारार्थमाह -

इतश्चेति ।

हेत्वन्तरमेवावशिष्टसूत्राक्षरयोजनया स्पष्टयति -

यस्मादिति ।

तं ब्रह्मलोकगतमुपासकं हिरप्यगर्भः स्वसमीपमुपागतं सानुनयमाह - मया खल्वाप एवामृतमय्यो मीयन्ते दृश्यन्ते भुज्यन्ते तवाप्यसावमृतरूपोदकलक्षणो लोको भोग्यो यथासुखं भुज्यतामित्याह -

तमाहेति ।

उपासकस्योपास्यदेवतया भोगमात्रसामान्ये श्रुत्यन्तरमाह -

स यथेति ।

सशब्दो दृष्टान्तपरः । अवन्ति भजन्ते ।

तत्रैव वाक्यान्तरमाह -

तेनेति ।

उशब्दोऽप्यर्थः । सलोकतामपीति सम्बध्यते । प्रकृतेनोपासनेनोपास्याया देवतायाः सायुज्यं तेन समानदेहतां समानलोकतां च भावनाविशेषादाप्नोतीत्यर्थः ॥ २१ ॥